________________
Achnatha n Gyaan
पुनस्तं भूपतिः प्रोचे, नैतच्चौर्य तवोचितम् । निन्दितं सर्वदा लोकै-बंधबन्धविधायकम् ॥ १२० ॥ प्राणिनां जीवनं द्रव्यं, सर्वकार्यनिदानकम् । अपाहृतं न किं लोके, तदेव हरताऽङ्गिना ॥१२१॥ नास्ति चौर्यसमं पापं, परत्रेह च दुःखदम् । तस्मातत्कर्मसंत्याग, कुरुष्व स्तेननायक ? ।। १२२।। सुभद्रो भद्रभावः साक्, भीमसेननरेशितुः । निपत्य पादयोः स्वीय, चमयामास दुर्नयम् ॥१२३॥ राजन्नतः परं चौर्य, कारयिष्ये न सर्वथा । कर्ता कारयिता चाऽपि, समानं फलमश्नुते ॥१२४।। भीमसेनः सुभद्रं तं, प्रतिबोध्य निजान्तिके । राज्यकार्यकृते विनं, ररच विशदाशयः ॥ १२५ ॥ पुण्योदयेन लम्यन्ते, विना यत्नेन संपदः । रक्षिता अपि नश्यन्ति, विपरीते विधौ सति ॥ १२६ ॥ इतः प्रधानसामन्ता-हरिषेखनरेशितुः । शिविरं भीमसेनस्य, संप्रापुः संशयान्विताः ॥ १२७ ॥ भरण्यस्थोऽपि भूजानिः, सामन्तगणवेष्टितः । शस्त्रपाणिभटौधेन, दुर्लक्ष्योऽभून्महौजसाम् ॥१२८।। भाजया मेदिनीम -ौःस्थेन वेत्रधारिणा । प्रवेशिताः सभामध्यं, प्रययुस्ते मनीषिणः॥ १२९|| उपदीकृत्य वस्तूनि, सारभूतानि भूभृते । नमश्चक्रु महामात्या-विनयाश्चितचेतसः ॥१३०॥ दृष्ट्या संमाविता राजा, यथार्हस्थानसंस्थिताः। पपृच्छुः कुशलोदन्तं, मुदिता राजसेवकाः ।। १३१ ॥ ततस्ते कथयामासु-ईरिषेणकथानकम् । स्मरनास्ते भवन्तं स-राज्यकार्यपराङ्मुखः ।। १३२ ॥ विज्ञातबन्धुवृत्तान्तो-भीमसेननरेश्वरः । किञ्चिन्म्लानमुखस्तस्थौ, बान्धवस्नेह ईदृशः ॥ १३३ ॥ तदानीं हरिषेणोऽपि, मुक्तमूर्धजसंहतिः । धावमानो रुदन्नुच्चै-रागमद्भीमसन्निधौ ॥ १३४ ॥ गाढं पादौ गृहीत्वा स-भीमसेनस्य दीनवत् । मनिर्वारितमारेभे, रोदनं करुणस्वरम् ॥१३५॥ अस्मदीयं कुलं भ्रात-र्दूषितं दुष्टचेतसा । निर्लजेन मया धिक्मा-मतस्त्वत्क्लेशकारिणम् ॥ १३६ ॥ विषयासक्तचेतस्का-अज्ञानतमसावृताः। हिताहितं
For Private And Person
Only