________________
-*
-**--
हंसख्यकैः ॥ २८ ॥ अगाधसलिला पुण्या, मीनग्राहसमाश्रया। भयदा भीरुपवाना, सुखदा पुण्यकर्मणाम् ॥ २९ ॥ भूषिता भूरिभिः पौ,-विमलैः सर्वदोत्कटैः। रङ्गत्तरङ्गनिकरै-रुबदन्त्यतिमीषणम् ॥ ३०॥ उत्तीर्य गङ्गासलिलप्रवाई, भीमः ससैन्यो रमणीयतीरे । तस्या निवासं विदधेऽथ चक्रुः, स्त्रीयानि कार्याणि च सैनिकास्ते ॥३१॥ उद्यानवृन्दं विविधं विशालं, तत्राऽभवद्दीव्यवनोपमानम् । यत्राऽतिरम्याः फलपुण्यभाजो-राजन्त्यनेके तरवोऽनुकूलाः ॥ ३२ श्रोत्रप्रियं नादमुदीरयन्तः, पतत्रिणः पादपपङ्किलीनाः । कर्तुं स्वयं स्वागतमागताना-मुत्कण्ठिता न व्यरमन्निवाऽत्र ।। ३३ ।। भीमस्तत-! स्तत्तरुखण्डशोभा, विलोकमानो भ्रमतिस्म सोत्कः । ददर्श तावञ्जिनचैत्यमेकं, भव्याऽऽत्मनां पुण्यनिधानभूतम् ॥ ३४ ॥
अभ्रंकषा यस्य शिखा समस्ति, यद्भित्तिरत्नप्रभवप्रभाभिः । सूर्यप्रभा सा प्रतनुर्विजन्ने, किं किं न चित्रं महतां हि लोके | ॥३५॥ प्रतिष्ठितं बिम्बमतुच्छलचमी, चन्द्रप्रभोः सत्वरमेत्य तत्र । निरीक्ष्य भक्त्योल्लसिताऽऽत्मभावः, प्रचक्रमे स्तोतुमिलाधिनाथः ॥ ३६ ॥ देवाधिदेव ? आमया क्षमस्व, त्रैलोक्यसंतारक ? लोकपूज्य ? । ममाऽपराधान् शरणाऽऽमतस्य, मनोवचःकायकृतान् समस्तान् ॥ ३७॥ त्वत्पादपङ्कजनतिं विधिना विधत्ते, यस्त्वन्मुखाऽम्बुजमिह प्रसमीचतेऽक्ष्णा । यो ध्यायति प्रथितमूर्तिमनन्यभावो,-धन्यः स एव तब केवलबोधमृचें ? ॥ ३८ चेतस्त्वदीयचरणाऽम्बुजयोर्विलग्नं, श्रोत्रेन्द्रियं तव कथाऽमृतपानमग्रम् । हस्तद्वयं त्वदनघालविलेपनोत्कं, तेषां जनि(वि सदा सफला प्रदिष्टा ॥३६ । स्तुत्वेत्यभीष्टफललीप्सुरनिन्द्यसवः, श्रीभीमसेननृपतिर्बहिराजगाम । देवेन्द्रचिन्तनचमत्कृतिमादधानः, प्रासादप्रेषणपरेचण उन्नतश्रीः॥४०॥ | इत: सुरेन्द्रः सदसि स्वभावात् , सुरैः कियद्भिः समधिष्टितायाम् । श्रीमीमसेनस्य कलङ्कहीनं, ब्रह्मव्रतं स्वाश्रमसंस्थितस्य