________________
अथदशमःसर्गः ॥
येनैतत्सकलं जगत्समधिया संतारितं दुर्गमात्, संसारोदधितः कुकर्मविषमग्राहादिमिर्जन्तुभिः ।
सर्वज्ञः क्षतकर्मराशिरनघः सिद्धधङ्गनाऽऽलिङ्गितः, स श्रीनेमिजिनेश्वरः शिवसुखं विस्तारयत्वङ्गिनाम् ॥ १ ॥ स्वराज्यजिघृक्षुरक्षितीशः, श्रीभीमसेनः सकलत्रस्नुः । स्वराजधानी प्रथिता प्रयातुं, सजीवभूवोद्धतसैन्यराशिः॥२॥ सेनापरिवृतः सद्यो-भीमसेननरेश्वरः । विजयसेनमापृच्छय, परिवारसमन्वितः ॥३॥ निरीयाय निरीहोऽपि, पौराणां मानसं हरन् । निजावासानदद्वाद्य-निर्घोषैर्घोषयन् दिशः ॥ ४॥ युग्मम् ॥ विजयसेनभूपोऽपि, वियोगातुरमानसः । विशालं | राजवाऽपि, द्रुतं संकीर्णमातनोत् ॥ ५॥ गाढस्नेहसमाक्रान्ती, नरनाथौ प्रचेलतुः । मध्येपुरं जनानन्दं, वर्धयन्ती प्रतिस्थलम ॥६॥ वसनाभरणं दवा, स्वभगिन्यै सुलोचना । वियोगाऽऽर्तमनाः किश्चि-स्प्रयाणोचितमब्रवीत् ॥ ७॥ स्वसस्त्यद्विरहानिर्मा, धक्ष्यति प्रत्यहं नवः । किं करोमि सतीनां हि, भर्तुरा व शस्यते ॥८॥ मदीयं मानसं हत्वा, व्रजन्त्यास्तवशोभनाः। पन्थानः सन्तु भ्योऽपि, देयं मे दर्शनं शुभम् ।।९॥ आरूढशिविके दीव्य-भूषणाऽम्बरभूषिते । भगिन्यौ वार्तयन्त्यौ ते, पत्तनादाहिरीयतुः ॥ १०॥ कियन्मार्गमनुव्रज्य, तस्थुषी सा सुलोचना । प्रयियासुजनानां हि, यतो न स्याद्विलंबनम् ॥ ११ ॥ सुशीलाऽथ गृहीताज्ञा, प्रयाणमतनोच्छिवम् । दासीवृन्दवृता भर्तुः, पृष्ठे अनुसमन्विता ॥ १२ ॥ कियरं गते
For PvAnd Persone
ly