________________
Acharya Sh Kasagarson Gyarmat
राज्ययोग्यौ युवाऽवस्थौ, पुत्रौ प्रज्ञाबलान्वितौ । इति संचिन्त्य भूजानि-र्वभूव तुष्टमानसः ॥ ११५ ॥ सजं सैन्यं प्रकुर्वायां, कुमारौ ? वीरमानिनौ ! राज्यं च हेलयाऽस्माक-मात्मसात्संभविष्यति ॥ ११६ ॥ विजयसेनमाहूय, तदने पुत्रचेष्टितम् । प्रोवाच भीमभूजानि-मलमारम्य बुद्धिमान् ॥ ११७ ॥ विजयसेन आचख्यौ, स्वकार्य कुरु सत्वरम् । इदमेव हि पाण्डित्वं, स्वार्थभ्रंशो हि मूर्खता ।। ११८ ॥ स्वराज्यं साधय माप , शत्रच्छेदं कुरुष्व च । शतं समान्सुखप्राप्ति-स्तवाऽस्तु स्वपरा
क्रमात् ॥ ११९ ॥ कुमारावूचतुर्वीरौ, मातृष्वसृपते ? शृणु । राजगृहं ब्रजिन्यावो-राज्यग्रहणहेतवे ॥ १२०॥ श्रुत्वा | तद्वचनं भीमः, परमानन्दपूरितः । कुमारौ सान्त्वयन्प्राह, मधुरं वचनं शनैः ॥ १२१ ॥ बुद्धिर्बुद्धिमता श्लाघ्या, सुवयोग,
भोति सांप्रतम् । विक्रमोर्जितसचाना, किमशक्यं जगत्त्रये ॥ १२२ ।। पराक्रमैकलम्याऽसौ, धरित्री ध्रियते नृपै। परदत्तपदं नैव, समीहन्ते मनस्विनः ॥ १२३ ।। स्वकीय पदमासाद्य, भ्राजन्ते भूरिविक्रमाः । मानसेन चिना हंसा-रमन्ते । न कदाचन ॥ १२४ ॥ अभिमानधना लोके, न सहन्ते पराजयम् । किमुताऽन्यकृतं शूराः, चात्रधर्मपरायणाः ॥ १२५ ॥ नीतिशास्त्रविदामेष-सर्गोऽस्ति विदितात्मनाम् । वर्धमानोरिपुर्मूला-दुच्छेद्यो व्याधिसंनिभः ॥ १२६ ।। पराजयपदं प्राप्य, स्वपन्ति विगतौजसः । मृगेन्द्रोर्जितसत्चास्तु, विजयेन चकासते ॥ १२७ ॥ विजिगीषुनरेन्द्राणां, स्वयमेवाऽस्ति मेदिनी । कामदा सर्वदा लोके, किमन्याश्रयतः खलु ॥ १२८ ॥ प्रकृतिमहतामेषा,-न सहन्ते पराभवम् । यया संपन्नसचानां, वैरिवारविनिर्मितम् ॥ १२९ ॥ तथाऽपि जीवलोकोऽयं, कर्मतंत्रवशंगतः। सुखदुःखभरं याति, दुर्लध्यं देवमेव हि ॥ १३० ।। धर्मार्थकाममोचाणां, प्राधान्यं धर्मकर्मणः। यस्मिन्सिद्धे त्रयस्तेऽपि, सिमन्ति क्रमतः खलु ॥ १३१ ॥
For Private And Personale Only