________________
Achanasha
G
श्री
नवमः
सर्गः।
मीमसेनचरित्रे।
॥४८॥
कारितक्लेशविद्वेषां, दासी च विमला नृपः। धिक्कृत्यान्तःपुराइरी-चकार रोषपूरितः ।। 8- || हरिषेणनृपं शून्य-चेतसं बन्धुदुःखतः । विलोक्य नागराः सर्वे, भृशं चिन्तामवाप्नुवन् || ६६ |भीमसेनगुणस्मृत्या, हरिषेणनराधिपः । तदेकध्यानसंलीनो-भ्रमन् संलक्ष्यतेऽधुना ॥१०॥ अरचितमिदं राज्यं, कथं स्थास्यति साम्प्रतम् । सेनान्या हि परित्यक्ताः, कियचिष्ठन्ति सैनिकाः॥१०१॥ चत्वरे चत्वरे भीम-मुच्चरनेकनादतः। पर्यटनैव लेभे स-काऽपि स्वास्थ्यं पुरान्तरे ।। १०२ ॥ हृदये चिन्तयामास, ज्येष्ठभ्रात्राऽनुलालितः। कृतघ्नोऽहं जनैर्निन्द्यो-विश्वासघातकारकः ॥१०३।। महापापी दुराचारी, दुर्वृत्तश्च शठाग्रणी। सञ्जातोऽस्मीव चाण्डालो-निन्द्येनाऽनेन कर्मणा ॥१०४॥ महर्निशं भीमनाम-स्मरणाऽऽसक्तमानसः। दिनानि निर्वहन् दीनो-हरिषेणनृपोऽभवत् ॥ १०५ ॥ विषादं भेजिरे पौराः, स्मृतभीमगुणवजाः। सकला राज्यलक्ष्मीश्च, हीनकान्तिरिवाऽभवत् ॥१०६ ॥ भीमसेननृपं लोकाः, स्मरन्तिस्म पुनः पुनः । गुणाः सर्वत्र पूज्यन्ते, गुणिनां जनसंसदि ॥१०७॥ भीमसेनं समाह्वातुं, दतान् स प्रैषयद्धरिः । अश्ववारान् पदातींश्च, प्रतिदेशं समुत्सुकः ॥१०८।। भ्रातृप्रेमसमं प्रेम, पृथिव्यां नैव विद्यते । दिव्यभोगा हि संपत्ति-र्यदने तृणवत्खलु ॥ १०६॥ इतोऽन्यदा गृहाऽऽपनं, निजतातमवोचताम् । देवसेनकेतुसेन-कुमारी भूरिविक्रमौ ॥ ११० ।। बलिष्ठानां वयं तात ?, मुख्या वर्चामहेऽधुना । न कोऽप्यस्मत्समो लोके, विद्यते सुभटाग्रणीः ॥१११ ।। तस्मादिदानी गत्वाऽऽशु, राज्यं ग्राह्यं स्वकीयकम् । स्वपदं प्राप्य निवृत्ति, भजन्ते बलवत्तराः ॥ ११२ ।। यदा राज्यपदं तात ? मिलिष्यति तदाऽवयोः । शान्तिर्भविष्यति स्वान्ते, पुरा प्रज्वालिते परैः ॥ ११३ ॥ एवं कुमारयोश्चेष्टा, ज्ञात्वा हृद्या नराधिपः । तुतोष पुत्रगांभीर्या-दीमसेनः स्वमानसे ॥ ११४ ॥
॥४८॥
For Private And Personale Only