________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
ताडयामास, किमकृत्यं हि दुधियाम् ॥ १६४ ॥ तदुदन्तं समाकर्य, चुक्रोध नगराधिपः । भटानाज्ञापयामास, सभार्य श्रेष्ठिनं गृहात् ॥ १६५ ।। निबद्ध्याऽऽनयताऽद्यैव, विलंबो नात्र कर्मणि । धनधान्यादिकं सर्व, लुण्ठ्यतां तद्गृहे स्थितम् ।। १९६॥ युग्मम् ।। सुभटा भरितोत्साहा-नृपा कवशंवदाः। त्वरया श्रेष्ठिनो वेश्म, गन्तुं वरमाऽभिपेदिरे ॥ १७॥ इतः श्रेष्ठी निजां मायाँ, जगाद स्वकृतं पुरा । अधुना का गतिनौं हा ???, भाविनी प्रियवादिनि ? ||१६|| राज्याऽऽश्रयोऽधुना लब्धः, पुराऽस्मद्गृहवासिना । भीमसेननरेशेन, भामिनि ? पूर्वविद्विषा ॥ १९९ ।। अत्रत्यभूपसंबन्धा-द्राज्यमारधरावुभौ ।' निग्रहाऽनिग्रहौ कर्तुं, समयौं तौ न चेतरः ॥ २०० ।। इति चिन्तातुरे जाते, श्रेष्ठिनि तत्र संगताः । उद्दण्डाः सुभटा ऊंचुबैध्यता बध्यतामिति ॥ २०१ ।। झटिति प्रगुणास्तेऽथ, बद्ध्वा तौ दम्पती दृढम् । लुण्टित्वा तद्गृहं सर्व, राजमन्दिरमासदन् ॥ २०२ ॥ विजयसेनभूपस्तु, दृष्ट्वा तौ सम्मुखागतौ । शूलिकायां समारोप्या-वादिदेश भटानिति ॥ २०३ ।। नयवेदिनृपा योग्यां, शिक्षां कुर्वन्ति विद्विषाम् । नयाऽनयाध्वनोन्रष्टा, विवेकी संमतः सताम् ॥ २०४ ।।
आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाहस्करः, सरिः श्रीयुतबुद्धिसागरगुरुस्तत्पादसेवारतः । तत्पद्वेऽजितसागरेण सुधियामरीन्दुनानिर्मिते, श्रीमद्भीमनरेशचारुचरिते सर्गो बभूवाऽष्टमः ।। २०५॥
इति श्रीभीमसेननृपचरित्रेऽष्टमः सर्गः समाप्तः॥८॥
For Private And Personlige Only