________________
मटमः
सर्गः।
भीमसेनचरित्रे ।
॥४४॥
| शिविकामुपविश्याऽथ, सर्वे प्रासादमागमन् । महाऽऽनन्दकरो जज्ञे, वासरोऽयं पुरेऽखिले ॥ १७६ ॥ वियोगदुःखितास्तेऽपि, मिथो वार्ताऽभिलाषिणः । अन्यवासगृहं प्राप्य, भीममुख्या उपाविशन् ॥ १८० ॥ नृपसंभाविताः सर्वे, पौराः स्वस्वजना:न्विताः। दैवमेव प्रशंसन्तो-निजस्थानं ययुर्मुदा ।। १८१॥ मिथो वियोगिनस्तेऽथ, भीमसेननृपादयः। षणं मौनमुखास्तस्थुरथुक्लिन्नविलोचनाः ।। १८२ ॥ सुशीलाऽध जगौ भीम, स्वामिन् ! दीनां विमुच्य माम् । देशान्तरगतस्त्वं तु, विस्मृति कृतवान्मम ॥ १८३ ॥ स्वामिन् ? दया न ते स्वान्ते, विद्यते मां जिहासतः । नाऽपराधो मया पूर्व, विहितो भवतः खलु ॥१८४ ॥ कुमारावप्यवादिष्टां, श्रेष्ठिन्या तात ? भद्रया। निपीडिता वयं क्रूर-कर्मणा सततं भृशम् ॥ १८५ ॥ अस्मत्कृते च मन्मात्रा, क्षुत्पिपासाऽतिदुःसहा । सहे प्रकामं नौ शर्म, चिकीर्षन्त्या पितः ? सदा ॥ १८६ ॥ ततो भीमनरेन्द्रेण, यजातं तन्निवेदितम् । स्वकीयं वर्त्तनं सर्व, तुष्टास्ते जन्झिरे तदा ॥ १८७ ॥ भोजनाऽवसरे जाते, नाना रसवतीभृताः । स्थाला आनायितास्तत्र, भुञ्जतेस्म नृपादयः॥ १८८ ॥ समावेदीं ततः प्राप्य, शुशुभाते नृपोत्तमौ । समयोनं नैव, ज्ञातसारा हि कुर्वते ॥ १८९॥ विजयसेन आचख्यौ, भूपतेच पुरे त्वयि । भागते कति वर्षाणि जातानीति निवेदय ॥ १७८ ॥ भीमोऽप्युवाच तं भूपं, त्रीणि वर्षाणि जज्ञिरे । एक वर्ष सहावासो-ऽस्माकं जातो धरापते ? ॥ १६० ।। ततोऽहमत्र पुत्रादी-न्मुक्त्वा देशान्तरं गतः । इत्युक्त्वा सुखदुःखं स, यज्जातं तन्न्यवेदयत् ॥ १६१॥ क्रोधाध्मातौ कुमारौ तु, कथयामासतुने॒पम् । श्रेष्ठिपत्नी महादुष्टा, मिलिता दुःखदायिनी ॥ १२ ॥ वहन्ती दुःसहद्वेष, निन्दन्त्यस्मान्मुहुर्मुहुः । स्वकीयं स्वामिनं प्रोचे, मृषाऽस्मद्दषणानि सा ॥ १६३ ॥ निष्कास्य स्वगृहादस्मान् , तद्गृहं ज्वालितं तया । भृत्यैश्च
॥
४
॥
For Private And Personale Only