________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
विशाम्पते ।। मदापणे विमुच्येत,-मागतोऽस्मि तवान्तिके ॥ १६२॥ मदादिष्टनराः सद्यो,-विविधायुधमासुराः । रात्निकापणमासाद्य, बबन्धुः पथिकं दृढम् ॥ १६३ ।। विविधं चिन्तयन्तं तं, समानीय मदन्तिके । अस्थापयन् मटाः प्रोचुः, क आदेशो नृपोत्तम ? ॥ १६४ ॥ मया स बहुधा पृष्टः, सत्यं न प्रोचिवानरः। भूषणानि ततो लात्वा, संगृहीतानि सबनि ॥१६५ ।। तस्करः स मया चिप्तः, कारागारे प्रकोपिना । अद्याऽपि भूरिकर्माणि, कुर्वस्तिष्ठति दुःखितः ॥ १६६॥ वृत्तान्तमिदमाकर्ण्य, भीमसेननराधिपः। समाहृय नरं तत्र, शान्तवृत्त्येति पृष्टवान् ।। १६७ ॥ अलङ्कारा इमे कस्मा-स्वयाऽऽनीता नराधम । सत्यं वदसि चेन्मुक्तं, त्वां करिष्यामि सत्वरम् ।। १६८ ॥ भूपतेवेचनं श्रुत्वा, झातसारोऽपि तस्करः। यथातथ्यं वचः प्रोचे, बन्धनस्य जिहासया ॥ १६९ ॥ विजयसेनराजेन्द्रं, भीमसेनोऽवदत्तदा । बन्धनान्मोचनीयोऽयं, सत्यं वदति मारतीम् ॥ १७० ॥ जगौ विजयसेनोऽथ, क्रोधरक्तेक्षणो नृपम् । तस्करं न विमोक्ष्यामि, दण्डनीयमिमं तव ॥ १७१ ॥ भीमोऽनुकम्पयायुक्तो-वभाषे नृपति तदा । अयं मलिम्लुचो मोच्यः, सत्यवादरतस्त्वया ॥ १७२ ॥ उपकारिजनं सर्वे, ह्युपकुर्वन्ति मानवाः । अपकारिजनानां तु, धन्या एवोपकारिणः ॥ १७३ ।। मीमसेनोपरोधेन, निर्बन्धनमिमं नरम् । चक्रे विजयसेनोऽपि, स्वदेशगमनार्थिनम् ॥ १७४ ॥ भीमोऽवादीत्पुनश्चौर्य, स्वया कार्य न कर्हिचित् । इहाऽपि दुःखमूलं तव, परत्र निरयप्रदम् ॥ १७५ ॥ परद्रव्यापहर्तारो-म्रियन्तेऽकालमृत्युना । चौर्यकर्मरतान्पुंसो-विश्वसन्ति न देहिनः ॥१७६ ॥ इत्येतद्वचनं श्रुत्वा, प्रमाणीकृततद्वचाः। न करिष्याम्यतश्चौर्य, सत्यं वच्मि नराधिप ? ॥ १७७॥ प्रणिपत्याऽथ भूपौ स-स्वाऽपराध क्षमापयन् । मुदितस्तस्करो भीम, प्रशंसन्प्रययौ ततः ।। १७८ ॥
For Private And Personlige Only