________________
AcharyanKadamagranGamana
| पशुवद्रोदनं चक्रे, भीमो लोकान्प्ररोदयन् । तद्वृत्तान्तं च नगरे, प्रससार जनाऽऽनने ॥१२९।। अथ दासी महिष्यग्रे, वृत्तान्तं तन्न्यवेदयत् । भगिनी ते समायाता, तिष्ठत्यत्र वणिग्गृहे ॥ १३० ॥ दास्युक्तमिदमाकर्ण्य, मुदिताऽभूत् सुलोचना । सुशीला मिलितुं सद्यः, सजीभूता विनिर्ययौ ॥ १३१ ॥ चेटी तां पुनराहस्म, भ्राम्यतोऽद्य नरेश्वरौ । तथापि नैव दृश्यन्ते, | कुवेदानी स्थिता इमे ॥ १३२ ॥ स्नेहबद्धा महारानी, नरयानसमाश्रिता । विलपन्ती गता मे क? भगिनीति पुरेऽभ्रमत् | ॥१३३ ।। प्रतिचत्वरमेतेषां, शोधन विहितं जनैः । तथापि तत्प्रवृचिों , लभ्यतेस्म मनागपि ॥ १३४ ॥ दीनस्याऽऽवसर्थ ग्रामे, को जानात्यपरो जनः । इत्थं पौरजनाः सर्वे, बभूवुर्व्याकुलास्तदा ॥१३शा भीमसेननृपोवादी-तेषां मे संगमो यदि । भविष्यति तदानीं मे, जीवनाऽऽशाऽन्यथा न वै ।। १३६ ॥ विलपन्तो जनाः सर्वे, पश्यन्तः प्रतिचच्चरम् । प्राकारों यत्र भग्नोऽस्ति, तत्र जग्मुर्जनाः समे ॥ १३७ ॥ तस्मिस्थले क्रन्दमानौ, कुमारी वीक्षितौ जनैः। तदा तो पितरं वीक्ष्य, जग्मतुर्नृपसन्निधौ ।। १३८ ॥ कुमारौ भूपती कटयां, स्थापयामासतुर्मुदा । प्रालिलिङ्गतुरेतौ च, हृदयेन मुहुर्मुहुः ।। १३९ ।। श्यामीभृतशरीरौ तौ, नखकेशजटाधरौ । संजातपिके नेत्रे, धारयन्तौ कुमारको ॥ १४०॥ लालास्विन्नमुखौ काम, मलीनजीर्णवाससौ । स्रवन्नासौ च रुक्षान-भोजिनौ तुम्बिकोदरौ । १४१ ॥ गलितावयवौ स्वस्य, पितुः संमुखसंस्थितौ । स्मृतात्मदुःखसंभारी, चक्रतूरोदनं भृशम् ॥ १४२ ॥ पृच्छतिस्म पुराधीशः, कुमारौ ? जननी क वाम् । समनि श्रेष्ठिनः सा तु, जीविकार्थ गता पुरे ॥१४३॥ दिनद्वयमभूत्तस्यां, गतायां धरणीधव ? । तथापि साऽद्य नायाता, कुर्वहे किं क्षुधाऽदितौ ॥१४४ ॥ भोजनं वां प्रदास्येऽह-मित्युक्त्वा न ददाति सा। भोजनस्य भृशं दुःखं, समजायत नौ सदा ॥१४५॥ दिनत्रयं
For Private And Pesso