________________
www.kobatirith.org
Acharya th
a gann Gyarma
मीमसेनचरित्रे।
स
।
॥१२॥
भीमसेनस्य, मूनि तां वीक्ष्य पूरुषाः। दरीचक्रुस्ततः सर्वा-त्यवेवदीमभूपतिः ॥ ११२ ॥ कन्यायां गुप्तसंपति-पर्चते तानिति ब्रुवन् । रथे प्रक्षेप्य तां भूपः, प्रस्थानाय मनो दधे ॥११३ ॥ इतस्तुम्बरसग्राही, सिद्धः सोऽध्वनि संभ्रमम् । विश्वासघातपापेन, पीडितोऽन्धोऽभवदने ॥ ११४ ॥ इदमान्ध्यं महापापा-त्प्रकटीभूतमाशु मे । प्रत्युत्कटं पुण्यपाप-मिहैव फलति ध्रुवम् ॥११५॥ तस्मात्तं तत्र गच्चैव, चमयामि महीभुजम् । इति संचिन्तयन्सोऽपि, दैवयोगात्तदाऽगमत् ॥११६ ॥ प्रणम्य तमुवाचेति, गृहाण तुम्बके इमे । चन्तव्यो मेऽपराधस्तु, भवता गुणवाधिना ॥ ११७ ॥ विधेहि करुणा राजन् ? मयि दीनमतौ नते । शरणागतजन्तूना, त्रायका हि महाशयाः ॥ ११८॥ चौरोऽस्मि तावको विद्वन् ! वे तुम्बे प्रतिगृह्य माम् । अनृणीकुरु मेधाविन १, सज्जना हि कृपालवः ॥ ११९ ॥ रसेन यदि कार्य स्यात् , पुनस्ते करुणानिधे । तदाज्यरसमानेष्ये, प्रसनो भव मां प्रति ॥ १२०॥ भीमसेनोऽप्युवाचैन-मेकं तुम्ब प्रदेहि मे। एकन भवता ग्राह्य, नीतिर्मान्या हि सज्जनः ।। १२१ ॥ बह्वाग्रहेण सिद्धस्तु, निधाय तत्र तुम्बके । भीमसेनं नृपं नत्वा, त्रिःप्रदचिणयन्मदा ॥१२२॥ मनो गन्तुं दधे याव-तावत्सिद्धस्य चक्षुषी । विकस्वरेञ्जसाऽभूता, निजमार्ग जगाम सः ॥१२३॥ ततो भीमादयः सर्वे, लक्ष्मीपतिगृहाऽङ्गणे । भाजग्मुस्तत्र महिषीं, कुमारौ न व्यलोकयन् ॥१२४।। तदा भीमो जनान्सर्वान् , पप्रच्छ दीनमानसः । क गता दारपुत्रा मे, व्यग्रबुद्ध्येति चत्त्वरे ॥ १२५ । कथयन्ति जनाः केचि-च्छेिष्ठिन्या भद्रया तव । कुट्टिताः पुत्रदारास्ते, गृहानिर्वासितास्तया ॥१२६॥ प्रचालितश्च तद्नेह,-मिति लोकमुखात्कथाम् । श्रुत्वा तमगराधीशो. बभूव रक्तलोचनः ।। १२७ ॥ मृमिवाप्य भीमस्तु, पपात धरणीतले । शीतादिकप्रयोगेण, लन्धसंशोऽभवद्यदा ॥ १२८॥
॥११॥
For Private And Person
Only