________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०)
दित्वेन । भावतः श्यामत्वेन नरक्तादित्वेन । अन्यथेतररूपापयास्वरूपहानिप्रसङ्गइति । अवधारणंचाऽत्रभङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम्, इतरथाअनभिहिततुल्यतैवास्य वाक्यस्यप्रसज्ज्येत; प्रतिनियतस्वार्थाऽनभिधानात् । यदुक्तम्,
" वाक्येऽवधारणंतावदनिष्टाऽर्थनिवृत्तयेकर्त्तव्यमन्यथाऽनुक्तसमत्वात्तस्यकुत्रचित् " ॥ १ ॥ तथाऽप्यस्त्येवकुम्भ इत्येताबन्मात्रेोपादानेकुम्भस्य स्तंभाद्यस्तित्वेनाऽपि सर्वप्रकारेणाऽस्तित्वप्राप्तेः प्रतिनियतस्त्ररूपानुपपत्तिः स्यात् । तत् प्रतिपत्तये ' स्यात् ' इतिशब्दः प्रयुज्यते - स्यात्कथंचित् स्वद्रव्यादिभिरेवाऽयमस्ति न परद्रव्यादिभिरपीत्यर्थः । यत्रापिचासौनप्रयुज्यते तत्रापिव्यव - च्छेदफलैवकारवत्बुद्धिमद्भिः प्रतीयतएव । यदुक्तम्
सोऽप्रयुक्तोऽविवातज्ज्ञैः सर्वत्रार्थात् प्रतीयते यथैवकारोऽयोगादिव्यवच्छेद प्रयोजनः ।
(२) स्यान्नास्त्येव सर्वमिति निषेधकल्पनयाद्वितीयः स्यात्कथंचित्नास्त्येवकुम्भादिः स्वद्रव्यादिभिरपिवस्तुनोऽसत्वाऽनिष्टौहिप्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियतिर्नस्यात् । नचास्तित्वैकान्तवादिभि रत्र नास्तित्वमसिद्धमितिवक्तव्यम् । कथंचित्तस्यवस्तुनियुक्तिसिद्धत्वात्, साधनवत् । नहिकचिद् अनित्यत्वादसाध्ये सध्वादिसाधनस्यास्तित्वंविपक्षेनास्तिन्वमन्तरेणोपपन्नम् तस्यसाधनत्वाभावप्रसंगात् । तस्माद्वस्तुनोऽस्तित्वंनास्तित्वेनाऽविनाभूतम् नास्तित्वंचतेनेति । विवक्षावशातच्चानयोः प्रधानोपसर्जनभावः । एवमुत्तरेष्वपिज्ञेयम् ॥ अर्पिताऽनर्पितसिद्धेः इतिवाचकवचनात् । इतिद्वितीयः ।
1
"
(३) स्यादस्त्येवस्यानास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ।
For Private And Personal Use Only