________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
($) सर्वमिति पूर्वसूत्रादिहोत्तरत्रचानुवर्त्तनीयम् । ततोऽयमर्थः । क्रमार्पितस्वपरद्रव्यादिचतुष्टयापेक्षयाक्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यांविशेषितं सर्व कुम्भादि वस्तुस्यादस्त्येवस्यान्नास्त्येवेत्युचेखेनवक्तव्यमिति ।
( ४ ) स्यादवक्तव्यमेवेतियुगपद् विधिनिषेधकल्पनयाचतुर्थः । द्वाभ्यामस्तित्वनास्तिन्यधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यां एकस्य वस्तुनोऽभिधित्सायांतादृशस्यशब्दस्यासंभवाद् अवक्तव्यंजीवादिवस्तु, तथाहि - सदसत्वगुणद्वयंयुगपद् एकत्र सदित्यने नवक्तुमशक्यम्, तस्याऽसश्वप्रतिपादनाऽसमर्थत्वात् तथाsसदित्यनेनापितस्य सत्वप्रत्यायनसामर्थ्याऽभावात् । नचपुष्पदन्तादिवत्साङ्केतिकमेकं पदं तद्वक्तुं समर्थम्, तस्याऽपिक्रमेणार्थद्वयमत्यायने सामर्थ्योपपत्तेः शतृशानयोः संकेतितसत्शब्दवत्; अतएवद्वन्द्रकर्मधारययोर्वाक्यस्यचनतद्वाचकत्वम् इतिसकलवाचक रहि
,
त्वाद् अवक्तव्यंवस्तुयुगपत्सत्वाऽसश्वाभ्यप्रधानभावार्पिताभ्यामाक्रान्तंव्यवतिष्ठते । नच सर्वथाऽवक्तव्यं; अवक्तव्यशब्देनापिऽप्यनभिधेयत्वप्रसङ्गात् । इतिचतुर्थः ।
(५) स्यादस्त्येवस्यादवक्तव्यमेवेतिविधिकल्पनयायुगपद्विधिनिषेधकल्पन याच पञ्चमः । स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यांसहवक्तुमशक्यं सर्ववस्तु । ततः स्यादस्त्येवस्यादवक्तव्यमेवेत्येवंपश्चमभङ्गोनोपदृश्यत इति ।
(६) स्यान्नास्त्येवस्यादवक्तव्यमेवविधिनिषेधकल्पनयायुगपद्विधिनिषेधकल्पनयापञ्चमः । परद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वेसत्यस्तित्व नास्तित्वाभ्यां यौगपद्येनप्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येवस्यादवक्तव्यमेवेत्येवं षष्ठभक्रेनप्रकाश्यते ।
For Private And Personal Use Only