________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मांसाहारेण देहस्य, पुष्टिं जानन्ति केचन मांसं भुञ्जन्ति पश्वादे-निर्दया हिंसका जनाः ॥३४५।। मांसाहारेण लोकानां, दीर्घायु व जायते नश्यति सात्त्विकीवुद्धि-दहाऽऽरोग्यं न तात्विकम् । ३४६॥ तामसवृत्तिदोषास्यु-मौसरक्तादिभोजिनाम् अतिकामादिदोषैश्च, पापराशिपरम्परा ॥३४७॥ मांसाहारिमनुष्याणां, देहपुष्टिन तात्त्विकी फलानदुग्धभोक्तृणां, दीर्घायुः सात्त्विकी मतिः ॥३४८।। मांसमद्यादिभोगेन, धर्मबुद्धिः प्रणश्यति बहुरोगाः प्रजायन्ते, भवन्ति दुर्गुणा भृशम् ॥३४९॥ जिव्हीस्वादस्य लाम्पट्याद्, देह पुष्टिप्रमोहतः मांसं भुञ्जन्ति ते पाप-कर्म बध्नन्ति दुःखदम् ॥३५०॥ किञ्चित्सुखं महापापं, पश्वादिमांसभोजिनाम् इतिविज्ञाय मांसस्य, त्यागं कुर्वन्तु मानवाः ॥३५१॥ पश्वादिहिंसनाल्लोका, विरमन्तु दयापराः प्रेमतःस्वाऽत्मवज्जीवान् , रक्षन्तु धर्मिमानवाः ॥३५२॥ शुद्धोपांग एवास्ति, चाऽहिंसासंयमस्तथा ज्ञानंध्यानमहिसैव, भक्तिसेवाऽस्ति चान्तरा ॥३३॥ आत्मनः शुद्धभावेन, ह्यहिंसा वस्तुतो भवेत् आत्मोपयोगसामर्थ्या-ज्ज्ञानी निर्हिसको ध्रुवम् ॥३५४॥ यज्ञार्थपशवःसृष्टा-इतिमिथ्याप्रलापनम् दयाब्धिरीश्वरः प्रोक्तः, स हिंसां नैव भाषते ॥३५॥ पशुपक्ष्यादिकं सृष्टं, नृणां भक्षणहेतवे प्रभुणेति प्रभाषन्ते, हिंस्वा अनार्यपापिनः ॥३५६॥
For Private And Personal Use Only