________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
यावड़िसा भवेत्ताव-दशान्तिराऽऽत्मनो ध्रुवम् अहिंसावृत्तिकर्मभ्यः, शान्तिःशर्म शिवं भवेत् ॥३३३॥ आत्मनः सदया श्रेष्ठा, प्रामाण्यवृत्तिकर्मभिः हिंसा निजाऽऽत्मनो ज्ञेया, प्रामाण्यभ्रष्ठजीवनात् ॥३३४॥
औदार्यसत्यगांभीर्यात्, दया सत्या प्रवर्धते सर्वलोकसहायेन, दयाधर्मों विवर्धते ॥४३५।। सर्वखण्डस्थलोकानां, रोगदुःखादिनाशने परस्परसहायार्थ, नियन्तां भव्यमानवाः ॥३३६॥ आत्मशुद्धोपयोगेन, कृतेषु सर्वकर्मसु अहिंसा चान्तरा सत्या, वर्तते ज्ञानयोगिनाम् ॥३३७॥ ज्ञानं सत्यसमाधिश्च, सद्दयैव सतां मता शुद्धोपयोगतः सत्या, वर्तते धर्मिणां दया ॥३३८॥ मनोवाकायगुप्तानां द्रव्यभावेन सद्दया आत्मनः पूर्णशुद्ध्यर्थ, हेतुभूता प्रवर्तते ॥३३९॥ यावडिंसापरीणाम-स्तावद्दयाविचारणा हिंसावृत्तिदयावृत्त्योः, शुद्धाऽऽत्मा हि पृथग्भवेत् ॥३४०॥ हिंसावृत्तेः क्षयार्थं हि, दयावृत्तेः प्रयोजनम् शुद्धोपयोगिनो द्वाभ्यां, स्वं जानन्ति पृथक् ततः॥३४॥ कृतकृत्याश्च सर्वज्ञा, दयाचारप्रपालकाः बोधयन्ति दयाधर्म, तस्माद्दयां समाचर ॥३४२॥ सद्दयैव मनः स्वर्गः क्रूरत्वं श्वभ्रमेवच स्वर्गश्वभ्रंपरिज्ञाय-दयाकर्म कुरुष्व भोः॥३४३॥ गोमहीष्यादिरक्षार्थ, विश्वस्थसर्वमानवैः कर्तव्यंस्वार्पणंपूर्ण, वित्तदेहादिभिर्भृशम् ॥३४४॥
For Private And Personal Use Only