________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दयालुरीश्वरोज्ञेयः, समः सर्वत्र देहिषु विश्वजीवर्यिता नैवं, ब्रूयाहिंसावचो यतः ।।३५७॥ सद्यज्ञा भक्तिसेवाद्याः, पशुहिंसाविवर्जिताः गवादिपशुलोकानां, रक्षैव यज्ञमर्म वै ॥३५८॥ सद्देवगुरसाधूनां, पूजाऽन्नपानकर्मभिः क्षुधार्तानां तृषार्तानां, सेवायज्ञः प्रकीर्तितः ॥३५९॥ ज्ञानंतपोदमोदानं, यज्ञाश्च बहुधा मताः सद्दयां प्रतिगच्छन्ति, सत्ययज्ञाःस्वभावतः ॥३६०॥ सर्वविश्वस्थलोकानां, हितार्थ याः प्रवृत्तयः शुभायज्ञाश्च शुद्धा हि, शुद्धोपयोगवृत्तयः ॥३६१॥ आत्मवत्सर्वजीवानां, हिंसा दुःखप्रदायिनी आत्मवत्सर्वनीवानां, दया शान्तिप्रदायिनी ॥३६२॥ आत्मवत्सर्वजीवानां, जीवनेच्छा प्रवर्तते स्वाऽऽत्मनो मृत्युवभीतिः, सर्वेषां भीतिरुद्भवेत् ३६३।। यथा मम प्रियो देह-स्तथा सर्वाऽत्मनां खलु ज्ञात्वैवं सर्वजीवानां, यथायोग्यं दयां कुरु ॥३६४॥ पशून हत्वा च ये यज्ञ, ब्रुवन्ति पशवो दिवम् गच्छन्त्येवंमहामिथ्या-वादका मोहवुद्धयः ॥३६५॥ यज्ञहोमेन यस्वर्ग, नीयन्ते पशवश्चते।। हुत्वा पुत्रादिकं स्वीय, स्वगन गमयन्तिकिम् ॥३६६॥ अयोग्यलग्नकर्माद्यं, मिथ्याधर्म्यकुरीतयः अधर्म्यमैथुनं हिंसा, देहवीर्यस्य दुर्व्ययः ॥३६७॥ वैद्यकधर्म्यशास्त्रायद्, विरुद्धमतिमैथुनम् स्वान्यघाताचरोगात्त-हिंसैव ज्ञानिसम्मतम् ॥३६८॥
For Private And Personal Use Only