________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦
मनोवाक्कायहिंसादि, - कारकं कर्म यच तत् हिंसां ज्ञात्वैव तत्याज्यं, सर्वखण्डस्थमानवैः ॥ ३६९ ॥ अधर्म्यकामदोषादि-वृद्धि कृत्कर्म यद्भवेत्
,
तत्र हिंसां प्रविज्ञाय त्यजन्तु सहयालवः ॥ ३७० ॥ कन्याविक्रयतो हिंसा, वरविक्रयतस्तथा
आत्महत्या महाहिंसा, सत्यज्ञानं दयाकरम् ॥३७१ ॥ हिंसा बन्धाय विज्ञेया, चाऽहिंसा स्वाऽऽत्ममुक्तये हिंसा दुःखाय विज्ञेया, चात्मानन्दाय सद्दया || ३७२ ॥ दयादानादितः पुण्य-कबन्धो भवेत्खलु पुण्याद् धर्मस्य सामग्री, प्राप्यते पुण्यकर्मभिः ॥ ३७३ ॥ शुद्धवायुर्जलं शुद्ध, स्थानं सात्त्विक भोजनम् योग्याहारो विहारश्च दुष्टव्यसनवर्जनम् ॥ ३७४ ॥ प्रकाशी मृत्तिका शुडा, भोजनं फलदुग्धयोः देहवीर्यस्य संरक्षा, दीर्घायुर्हेतवः स्मृताः ॥ ३७५ ।। ज्ञात्वैवं धर्मिभिश्चाधि-व्याधिवर्जन हेतवे दयावद्भिर्जगल्लोकाः कर्तव्या दीर्घजीविनः ॥ ३७६ ॥ स्वाऽऽत्मदया प्रकर्तव्या, दयावद्भिविवेकतः मद्यमादक पेयादि-त्यागेन भव्यमानवैः ॥ ३७७॥
दीर्घायुः साधनं सर्व, दयैव धर्महेतवे विज्ञायैवं च संसाध्यं, दीर्घायुर्जीवनं निजम् ॥ ३७८ ॥ स्वस्य धर्मस्य मोहेन, चाऽशुभमन्यधर्मिणाम् चिन्तितं च कृतं तद्धि, निन्दामि सत्यभावतः ॥ ३७९ ॥ स्वाऽन्यव्याधिविनाशाय, स्वाऽन्याघिनाशहेतवे स्वान्योपाधिनिवृत्त्यर्थं यत्कर्म तद्दया भृशम् ॥ ३८० ॥
For Private And Personal Use Only