________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेवगुरुधर्मार्थ, संघार्थ च महाजनैः अल्पदोषमहाधर्म, कर्म का यथातथम् ॥२८५॥ वनस्पतिफलाहारात्, सत्त्वबुद्धिः प्रकाशते सात्त्विकपानयोगेन, शुद्धबुद्धिः प्रकाशते ॥२८६॥ सात्त्विकभोजनाच्छुडि,-श्चित्तस्य प्रविजायते स्वच्छवायुजलाद्यैश्च, दयावृत्ति विवर्धते ॥२८७॥ अहिंसाधर्मिणां सङ्गाद्, दयाबुद्धिः प्रजायते द्रव्यभावदयायोगात्, स्वाऽऽत्मा सिद्धः प्रजायते ॥२८८॥ पवित्रभूमिवासेन, दयावुद्धिः प्रवर्धते पवित्रतीर्थवासेन, सद्दया हृदि जायते ॥२८९॥ चण्डकौशिकनागे च, कृताऽपराधिसंगमे: महावीरस्य नेत्रे द्वे, दयार्दै कुरुतां शिवम् ॥२९॥ यस्य पूर्णदयादृष्टिः कमठेऽत्यपराधिनि ध्यानावस्थास्थितो देवः पार्श्वनाथः श्रियेऽस्तुवः ॥२९॥ मृगवृन्दोपरिणीतिः सद्दया येन धारिता अरिष्टनेमिभगवान् , कल्याणं कुरु सत्वरम् ॥२९२॥ कपोतस्य कृता रक्षा, पूर्वजन्मनि भावत; सर्वविश्वस्यशान्त्यर्थ, शान्तिनाथोऽस्तुसर्वदा ॥२९३॥ भारतादिकदेशेषु, दयाधर्मिप्रवृद्धये साधवः प्रेषिता येन, पशुशालाः कृता घनाः ॥२९४॥ अशोकभूपपौत्रेण, जैनसम्प्रतिभूभुजा; चन्द्रगुप्तेन भूपेन, दया सर्वत्र वर्धिता ॥२९६।। वस्तुपालो महामन्त्री, तेजपालोऽपिगुजरे जातौ दयाप्रचारार्थ, भ्रातरौ जैनधर्मिणौ ॥२९६॥
For Private And Personal Use Only