________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वखण्डे पुदेशेषु, दयाऽऽचार्यैः प्रवर्ध्यते अहिंसाधर्मिणांसत्य, मार्यत्वंगुणकर्मतः ॥२७॥ मदिरामांसतोदूरा, आर्याःस्युर्गुणकर्मतः अनार्यम्लेच्छलोकानां, हिंसात्वं वृत्तिकमतः ॥२७॥ सृष्टिविरोधकं कर्म, हस्तकर्मादिकं च यत्: बाललग्नादिकहिंसा, त्याज्या धर्मार्थकामिभिः ॥३७॥ अतिशोकादिकं हिंसा, ज्ञातव्या च विवेकिभिः मनोवाकायशक्तीनां, रक्षणं सद्दया मता ॥२७६॥ अत्याहारैस्तु हिंसैव, चातिवादश्च हिंसनम् मनोवाकाययोगाना, मतियत्न श्च हिंसनम् ॥२७७॥ कूपादिपतनं हिंसा, विषादिभक्षणं तथा; अतिपरिश्रमोरिसा, ज्ञातव्यैवं विवेकतः ॥२७८॥ आतरौद्रविचाराणां, हिंसाऽस्ति कर्मवन्धनात् धर्मशुक्लविचाराणां, स्वाऽऽत्मदयाऽस्तिवस्तुतः ॥२७९॥ स्वाऽऽत्मनो या दया सैव, चाऽन्यसर्वदयादितः अस्त्यनन्तगुणैः श्रेष्ठा, सर्वकर्मविनाशिनी ॥२८॥ दर्शनज्ञानचारित्र, महिसैव स्वभावतः शुद्धोपयोग एवाऽस्ति, ह्यहिसा च निजाऽऽत्मनः ॥२८॥ अहिंसा त्रिविधा ख्याता, तामसी राजसी तथा सात्त्विकी स्वाऽऽत्मशुङ्यथै, श्रेष्ठाऽस्ति चोत्तरोत्तरा॥२८२॥ मुक्त्यर्थ सात्त्विकी भव्यैः कर्तव्या स्वोपयोगतः निष्कामबुद्धितः कार्य, महिंसाकर्म तात्त्विकम् ॥२८३॥ हिंसा त्रिधाऽस्तिविज्ञेया, तामसी राजसी तथा: सात्त्विकी च परित्याज्या, स्वाऽधिकारेण मानवैः॥२८४॥
For Private And Personal Use Only