________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुष्काले कच्छसौराष्ट्र,-गुर्जरादिषु मानवाः रक्षिता अन्नदानेन, जगडूशादयालुना ॥२९७॥ इलादुर्गेमहाश्रेष्ठो, दुष्काले सर्वरक्षकः अंबावीदासजैनोऽभूत् , तस्याऽस्ति कीर्तिरुत्तमा ॥२९८॥ मंडपे पेथडश्रेष्ठी, जैनो बभूव धर्मवान् क्षुधार्तादिमनुष्येभ्या, भोजनाद्यं च दत्तवान् ॥२९९॥ अशोको भूपतिः श्रेष्ठः सर्वभूपतिशेखरः तेन दयासमुद्रेण, देशाहिंसा निवारिता ॥३००॥ खारवेलेन भूपेन, भारते वर्धिता दया; सिद्धसेनोपदेशेन, विक्रमेण दया तता ॥३०॥ अहिंसा स्थापिता राज्ये, दयामयेन चेतसा स आमभूपतिः श्रेष्ठो, बभूव जैनधर्मिराट् ॥३०२॥ अक्बरबादशाहेन, भारतदेशचक्रिणा आर्याणां प्रेमवृद्ध्यर्थ, गवां हिंसा निवारिता ॥३०३॥ हीरविजयसूरीणां, प्रबोधेनैवसद्दया यस्याऽऽत्मनि भृशं जाता, सोऽक्वरः कीर्तिमान्श्रुतः॥३०४॥ यस्य विश्वोपरि प्रेम, तस्य व्यापकसदया, दयाहसास्वरूपं तु, ज्ञानी जानाति वस्तुतः ॥३०५॥ ज्ञानं पूर्व दया पश्चात् , नाऽस्ति ज्ञानं विना दया ज्ञानी ज्ञानेन जानाति, दयां हिंसां च वस्तुतः ॥३०॥ काययोगेन हिंसा तु, केवलिनामपि भवेत् द्रव्यहिंसाऽस्ति सादेहान् , न तु भावेन विन्दत ॥३०७॥ रागषपरीणामा, हिंसाऽस्ति भावतःखलु रागद्वेषपरीणाम, विना नास्ति हि भावतः ॥३०८॥
For Private And Personal Use Only