________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मोपयोगरूपाऽस्ति, ध्यानवृत्तिर्मनीषिणाम् आत्मशुद्धोपयोगेऽन्त-, र्भावं यांति समाधयः ॥७०॥ कषायोपशमेजाते, चित्तवृत्तिसमाधयः प्रादुर्भवन्ति शान्तानां, योगिनामुपयोगतः ॥७१॥ आत्मोपयोगए वास्ति, समाधि ानिनां सदा सर्वकार्यप्रकुर्वन्सन्, ज्ञानीसत्यसमाधिमान्. ॥७२॥ हठादनंतशिष्टोऽस्ति, शुद्धोपयोगआत्मनः हठयोगोबहिर्हेतुः शुद्धोपयोगआन्तरः ॥७३॥ स्मारंस्मारंचिदात्मान, मुपयोगीभवेत्प्रभुः देहस्थोऽपि स निर्देही, सर्वविश्वप्रकाशयेत्. ॥७॥ अनन्तपुण्ययोगाच्च, सतांभक्तिप्रतापतः सद्गुरोराशिषोव्यक्तः स्यादुपयोग आत्मनि ॥७५॥ कोटिकोटितपोयज्ञ, तीर्थयात्रादिकमतः अनन्तउत्तमः श्रेष्ठः शुद्धोपयोग आत्मनः ॥६॥ शुद्धोपयोगतोमुक्तिः सर्वदर्शनधर्मिणाम्. समत्वमुपयोगोऽस्ति, ोकतालीनतातथा ॥७७॥ व्यक्तसाम्योपयोगेहि, केवलज्ञानभास्करः हृदिप्रादुर्भवत्येव, लोकालोकप्रकाशकः ॥७८॥ साम्योपयोगिनांमुक्तिः सर्वधर्मस्थदेहिनाम. अनार्याणांतथाऽऽर्याणां, नारीणांचनृणांभवेत् ॥७९॥ शुद्धात्मनः स्मृतिधृत्वा, हृदिशुद्धात्मधारणम् ; कुर्वन्नात्मनिमग्नोयः स शुण्डात्माभवेद्रयात् ॥८॥ शुद्धोपयोगिनो धर्म्य-, कर्म कुर्वन्तिभावतः दानपूजादयाद्यैस्ते, कुर्वन्तिकर्मनिर्जराम्
॥८॥
For Private And Personal Use Only