________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૭૬
सर्वारंभपरित्यागी, भवेत्साधुरहिंसकः अतोगृहस्थतोत्यागी, ह्यनन्तगुणशुद्धिकृत् ॥८२॥ द्रव्यभावद्यावन्तः साधवो धर्मदेशकाः शीघ्रमुक्तिपदंयान्ति, विश्वदयाप्रवर्धकाः ॥८३॥ कोटिकोटिमहोपायै, र्धर्मिजीवस्यरक्षणम् हिंसकेभ्यः प्रकर्तव्यं, सात्त्विकन्यायकर्मभिः ॥८४॥ अन्याय एवहिंसाऽस्ति, न्याय एवं दयाशुभाः कापयमेव हिंसाsस्ति, निभव दयास्मृता ॥ ८५ ॥ हिंसायां पापमन्तार, वार्या हिंसा निषेधकाः अनार्याविपरीताःस्यु, हिंसाचार विचारिणः ॥८६॥ मांस रक्तादिभोक्तारः पश्वादिधातिनोजनाः अनीत्या जनहन्तारो, राक्षसा जनरूपिणः ॥८७॥ जनादीनां विनाशेन, जीवनचवहन्ति ये चण्डालास्तेच विज्ञेया, - जनघातेनजीविनः ॥ ८८ ॥ क्रूरहिंसकपापानां संगोऽपिवा पहेतवे : हिंसकाश्चक्रवर्त्याद्या, मृत्वा श्वभ्रंप्रयान्तिते ॥ ८९ ॥ गालिदानेऽपिहिंसाऽस्ति निन्दा हिंसास्वरूपिणी अभ्याख्यानंच हिंसाऽस्ति, हिंसाः पैशुन्यवृत्तयः ॥ ९०॥ हिंसा विश्वासघातोsस्ति, कूटसाक्षिप्ररूपणम् कूटलेखोsपिसैिव, हिंसा मिथ्याप्रभाषणम् ॥ ९१ ॥ हिंसा चुराऽपि बोडव्या, परन्यासापहारणम् मित्रद्रोहवहिंसैव, मिथ्यात्वबुद्धिवासना ॥९२॥ अधर्म्यकामतोहिंसा, जायते निश्चयो महान् भावहिंसा प्रबोडव्या, मोहस्य सर्ववासना ॥९३॥
For Private And Personal Use Only