________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
भावहिंसापरित्यागाद्, द्रव्यहिंसा निवर्तते; अनुपयोगतो हिंसा, चाहिंसा स्वोपयोगतः ॥९४॥ दयातोयतनावृत्ति, दयाचारश्चजायते; दर्शनज्ञानचारित्रै, रहिंसा द्रव्यभावतः ॥९५।। देशखण्डसमाजेषु, दयाकार्यप्रवृत्तयः कर्तव्याःसजनः श्रेष्ठाः सम्यगदयाविचारतः ॥९६॥ आर्या अहिंसयाख्याता, अनार्या हिंसयातथा आर्यधर्मो दयापूर्णः आदिशो दयामयः ॥९७॥ किंराज्यः किंधनौगः किंपुत्रश्च दयांविना मोक्षद्वारं दया ख्याता, शुद्धाऽऽत्मोन्नतिकारिणी ॥९८॥ गुणस्थानक्रमारोहे,-दया साधनमुत्तमम् मनोवाकाययोगेन,-दयांकुरुष्व चेतन !! ॥९९॥ दयातःस्वाऽयिकारेण, योग्यकर्म समाचर; धारय थतनां सर्व, कार्यषु स्वोपयोगतः ॥१०॥ हिंसापापनिवृत्त्यर्थ, दवाधर्मसमाचर हिंसा नश्यतिसत्पीत्या, पुण्यात्पापविनश्यति ॥ १०॥ दया पुण्यायविज्ञेया, पापायजीवहिंसनम् आत्मवत्सर्वजीवाना, महिंसां त्वं समाचर ॥१०२॥ स्वाङ्गनाशेयथादुःख,-मन्याऽङ्गनाशनेतथा स्वमृत्यौचयथादुःख,मन्यमृत्यौ तथा भवेत् ॥१०३॥ नाऽस्तिमृत्युसमाभीतिः, क्षुत्समा नास्ति वेदना; स्वाऽत्मवत्सर्वजीवेषु, ज्ञात्वा दयां समाचर ॥१०४॥ दयांविना न देवत्वं, प्राप्यतेकोटियुक्तिभिः देवाभूता भविष्यन्ति, भवन्ति सद्दयाबलात् ॥१०॥
For Private And Personal Use Only