________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
प्रमत्तयोगतःप्राण-, नाशाहिंसा प्रजायते हिंसायाः परिणामेन, स्याडिसाकर्मबन्धनम् ॥७॥ अहिंसापरिणामेन, भवेदाऽऽत्माह्यहिंसकः हिंसावुद्धिविनाधर्म-कार्येणशुद्धिराऽऽत्मनः ॥७॥ अल्पदोषो महाधर्मों, बहव्यश्च निर्जरा यतः कर्तव्यं धर्मकार्यतद्, दयावद्भिर्विवेकिभिः ॥७२॥ अन्यायेनभवेडिंसा, न्यायेन सद्दया भवेत् : दयाऽस्तिब्रह्मचर्येण, हिंसाऽस्तिव्यभिचारतः ॥७३॥ दयायाश्चविचारेण, प्रवृत्त्या पुण्यबन्धनम् हिंसायाश्चविचारेण, प्रवृत्त्या पापबन्धनम् ॥७४॥ क्रियमाणेषुकार्येषु, दयादृष्टिप्रधारिणः पापकर्म न बध्नन्ति, शुद्धोपयोगिदेहिनः ॥७॥ मैत्रीभावेन जीवेषु, दयाधर्मःप्रवर्धते प्रमोदभावयोगेन, स्वाऽन्यहिंसाप्रवर्जनम् ॥७६॥ माध्यस्थ्यभावयोगेन, द्रव्यतोभावतोदया: भवेनिजाऽऽत्मनः शुद्धि, रहिंसा स्वाऽन्यदेहिनाम् ॥७॥ निजाऽऽत्मनोभवेडिसा, रागद्वेषकषायतः साम्येन स्वाऽन्यजीवाना, महिंसा जायते खलु ॥७८॥ अहिंसाजायतेशुद्ध,-प्रेम्णाच संयमेन वै स्वाऽन्याऽऽत्मनां प्रशुड्यर्थ, सामायिकंसमाचर ॥७९!। देशविरतियोगेन, देशहिंसा विनश्यतिः सर्वविरतियोगेन, सर्वहिंसा विनश्यति ॥८॥ आरम्भश्चसमारम्भो, द्रव्याहंसादिवर्धकाः निरारंभतया हिंसा, नश्यति द्रव्यभावतः ॥८१॥
For Private And Personal Use Only