________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दयात ईश्वरप्राप्ति, र्दयां ज्ञात्वा दयांकुरु क्षुधार्तरोगिलोकानां, सेवां कुरुष्व भावतः ॥८॥ दयातः सर्वदेवास्यु, निवाः स्युरहिंसया दयातः पुण्यबन्धोऽस्ति, पापबन्धोऽस्ति हिंसया ॥१९॥ नाऽस्ति दयासमराज्यं, नास्ति दयासमंधनम् । नाऽस्ति दयासमासत्ता, नाऽस्ति दयासमोनृपः ॥६०॥ अहिंसासत्यसाम्राज्य, मान्तरं विश्वशान्तिकृत् प्राप्य नरा निजंराज्य,-मात्मिकंयान्तिभावतः ॥६॥ नद्यः सरांसि सवृक्षाः कूपा मेघाश्च वापिकाः दयावन्तोमनुष्याश्च परोपग्रहहेतवे ॥६॥ अन्धपङ्ग्वादिलोकानां, रुग्णादिपशुपक्षिणाम् धर्मशालादिकंसर्व, प्रकर्तव्यं दयापरैः ॥१३॥ जलान्नवस्त्रसत्स्थान, धनाद्यैश्वदयापरैः जनादीनां प्रकर्तव्या, सेवा मोक्षप्रदायिनी ॥४॥ कपोतादेर्दयाकार्या,-वित्तयादिमाधनैः साहाय्यंच मनुष्याणां, कुरुस्वार्पणतः सदा ॥६६॥ रोगापत्तिनिमग्नाना, मशक्तानां सहायताम् कुरुष्व सद्दयांधृत्वा,-मा प्रमादं कुरुष्व भोः॥६६॥ रोगाद्यैर्दःखिलोकानां, साहाय्यं कुरु शक्तितः यस्य योग्यं च यत्तस्मै, तदेयं सद्दयापरैः ॥७॥ ईश्वरप्रतिमाः सन्तो, दयोपकारकारिणः पराऽऽत्मानो भवेयुस्ते, मोहादिकर्मनाशतः ॥६॥ अहिंसया प्रजीवन्ति, धर्माः सर्वं जगत्स्थिताः हिंसया नैवधर्मोऽस्ति, भाषितं जिनपुंगवः ॥१९॥
For Private And Personal Use Only