________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
93
दयाधर्मस्यवृद्ध्यर्थ, हिंसां मा कुरु मोहतः दययैवदयावृदें, कुरुष्व सर्वदेहिषु ॥ ४६ ॥
दयावां मरणं श्रेयो, मा जीव ! हिंसया क्षणम् । मनस्यपि न हिंसायाः, परिणामं कुरुष्व भोः ॥४७॥ हिंसा प्रतिफलं हिंसा, दयाप्रतिफलंदया: दयाप्रेम्णैवहिंसाया, नाशोभवतिनिश्चितम् ॥४८॥ निजाऽपराधिलोकेषु, वरिषुचदयां कुरु शक्तिमद्भिर्दया कार्या, यथायोगं विवेकतः ॥ ४९ ॥ कर्मविश्वासमालम्व्य, दयां कुरुष्व देहिनाम् दयाकार्येच दुःखाब्धौ प्राप्तेऽपि न दद्यां त्यज ॥ ५० ॥ दयाकार्ये भवेन्मृत्यु, स्तर्ह्यपि मा दयां त्यज दयाकार्येच संप्राप्तं, दीनत्वमपिमुक्तये ॥ ५१ ॥ गंगादिस्नानतोऽनन्त, - फलप्रदाऽस्तिसद्दया; दयैवाऽस्तिमहागंगा, स्वर्गमुक्तिप्रदायिनी ॥ ५२॥ दयैव सर्वतीर्थानां तोर्थमस्ति स्वभावतः दयैव सर्वयज्ञानां यज्ञमुख्या स्वभावतः ॥५३॥ अहिंसापालने सर्व-धर्माराधन सत्फलम् ; जायते सर्वदानानां फलं च त्वं दयां कुरु ॥५४॥ वेदानामपिवेदो स्ति, दयैव विश्वरक्षिणी; सर्वविश्वोपकारार्थं, दयादेवीं भजस्व भोः ॥५५॥ नास्ति दयासमा माता, नाऽस्तिमित्रं दयासमम् नास्ति दयासमोभ्राता, नाऽस्ति तीर्थ दद्यासमम् ॥२६॥ नाऽस्ति दयासमा यात्रा, नाऽस्ति दयासमा श्रुतिः नाऽस्तिदयासमं सत्यं; दयाकृत्यं कुरुष्वभोः ॥५७॥
For Private And Personal Use Only