________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनाचार्यबुद्धिसागरसूरिविरचितः
दयाग्रन्थः
"
परब्रह्ममहावीर, वीतराग नमोऽस्तुते त्वदुक्तसद्दयाबोधात्, दयाग्रन्थं करोम्यहम् ॥ १ ॥ दयासमा महाधर्मो न भूतो न भविष्यति दयामीश्वरावास, धर्ममूलं दयाशुभा ॥ २॥ अहिंसा परमोधर्मो, धर्मोनाऽस्ति दयांविना दयैव परमं सत्यं, दयैव परमं तपः ॥ ३ ॥ अहिं सैवमहायज्ञो, दयैव प्रभुसाधना, नास्ति दयासमा सेवा, भक्तिर्नाऽस्तिदयासमा ॥ ४ ॥ दयैव सर्वधर्माणां सारश्चित्तस्यशुद्धिकृत् । हिंसा पापस्य मूलं च धर्ममूलं दया सदा ॥ ५ ॥ दयार्थं सत्यमस्तेयं ब्रह्मचर्य प्रकाशितम् दयार्थं च क्षमात्यागो, दानं च यतना शुभा ॥ ६ ॥ दया यत्र प्रभुस्तत्र, सत्यं सत्यं वदाम्यहम् : सर्वजीवस्यरक्षार्थ, दयां दानं समाचरम् ॥ ७ ॥ दयायां वेदवेदान्त - रहस्यमाति सर्वथा: दयामूलं प्रभोःसूक्तं पापमूलकुवासना ॥ ८ ॥ दयैव देवपूजाsस्ति, दयैव तीर्थसेवनम् ; मनोवाक्काययोगेन, दया कृत्यं कुरुष्व भोः ॥ ९ ॥
For Private And Personal Use Only