________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वदेवाधिदेवोयः सर्वज्ञः सर्वशक्तिमान् वर्धमानो महावीरो, विश्वस्यास्तु प्रशान्तये ॥ ७९९ ॥ शुद्धोपयोगकर्ताऽयं ग्रन्थो विश्वप्रशासकः आचन्द्रार्कमहींयाव, ज्जीवतुधर्मधारकः ॥ ८००॥ विक्रमाच्छे निधिद्वीपे (१९७९) निधिचन्द्रेशुभाश्विने दशम्यां शुक्लपक्षस्य, प्रभाते गुरुवासरे ॥८०१ ॥ अष्टशतैः शुभैः श्लोकैः शुद्धोपयोगकारकः शुद्धोपयोगनामाऽयं, ग्रन्थोजीयाज्जगन्तले ॥८०२॥ शुद्धोपयोगनामाऽयं ग्रन्थः कल्याणकारकः विद्यापुरेकृतः प्रीत्या, बुद्धिसागर सूरिणा ॥ ८०३ ॥
For Private And Personal Use Only