________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
होई
Acharya Shri Kailassagarsuri Gyanmandir
अध्याssत्मज्ञानलाभार्थ, माऽऽत्मज्ञानाऽधिकारिणाम् शुद्धोपयोगनाम्नाऽयं कृतो ग्रन्थो मया शुभः ॥ ७८७ ॥ कृतेशुद्धोपयोगेयत्, फलंभूतं च तेन तत् विश्वस्थ सर्वजीवानां शान्तिर्भवतुशाश्वती ॥७८८ ॥ शुद्धोपयोगशास्त्रेण, सर्व संघोन्नतिर्भवेत् सर्व विश्वस्थपापानि, नश्यन्तु तत्प्रवृत्तितः ॥ ७८९ ॥ शुद्धोपयोगशास्त्रस्य, श्रोतारो ये च वाचकाः सद्/वज्ञापराः शान्तिं, यान्तुपूर्णसुखश्रियम् ॥ ७९० ॥ शुद्धोपयोगनाम्नोssस्य, ग्रन्थस्य मर्मवेदिनः गीतार्थ गुरसेवायाः - कर्तारो यान्तुतत्फलम् ॥ ७९१॥ गीतार्थ रुभक्तानां श्रोतृवाचकदेहिनाम् शुभाशीमें भवत्वेवं, स्वर्गसिद्धिप्रदायिका ॥ ७९२ ॥ सर्वसंघोन्नतिर्भूया, च्छान्तिः सर्वत्रवर्तताम् शान्तिस्तुष्टिश्चपुष्टिश्च भूयात्सर्वत्रमङ्गलम् ॥ ७९३ ॥ सर्वेजीवाः सुखं यान्तु, दुःखं नश्यतु देहिनाम् पुण्यकर्माणि वर्धन्तां, नश्यन्तु पापवृत्तयः ॥ ७९४॥ पापकर्माणि नश्यन्तु, प्रादुर्भवन्तु धर्मिणः विश्वोद्धारस्यकर्तारः प्रादुर्भवन्तु सूरयः । ७९५ ।। शुद्धोपयोगबोधेन, लोका भवन्तु धर्मिणः अधर्मदुःखनाशोऽस्तु धर्मः सर्वत्र वर्धताम् । ७९६ ।। योगिनो ज्ञानिनः सन्तो, विश्वशान्तिप्रदायकाः प्रादुर्भवन्तु राजानो, मन्त्रिणो धर्ममूर्तयः ॥ ७९७॥৷ विश्वशान्तिप्रदं सत्यं धर्ममङ्गलशर्मदम् सर्वधर्मोत्तमं पूर्ण, जयताज्जैनशासनम् ॥७९८ ॥
"
For Private And Personal Use Only