________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्वादिखादकालोका, निर्दया राक्षसाभुवि हिंसायांधर्ममन्तारो, यान्तिश्वभ्रं हि हिसकाः॥ १० ॥ दुःखस्यवल्लिका हिंसा, स्वर्गमूलं दयास्मृता; अनन्तादेहिनोमुक्तिं, याता यास्यन्त्यहिंसया ॥ ११ ॥ देव्योदेवाश्वसद्भक्ता, मांसंखादन्ति नैव ते हिंसया पापयज्ञाः स्यु, धर्मयज्ञा अहिंसया ॥ १२ ॥ अहिंसैव प्रभोधर्मों, हिंसायां धर्मशून्यता: पशुपक्षिमनुष्याणां, दयायां धर्मउच्यते ॥ १३ ॥ पापमूलं मदोज्ञेयः पापं जीवोपपीडनात्: परोपकारसन्मूलं, दयां चित्तं प्रधारय ॥ १४ ॥ धर्ममाता दयैवस्यात् , मातानाऽस्ति दयासमा सात्विक्यास्ति दयादेवी, धर्मस्य जननी सदा ॥ १५ ॥ धर्मोत्पत्तिरहिंसातो, हिंसातः पापसंभवः प्रेरणवं प्रभोःसत्या, सतां हृत्सुस्वभावतः ॥ १६ ॥ आत्मशुडिरहिंसातः सर्वत्रसर्वदेहिनाम् । प्रभोप्राप्तिरहिंसात, आत्मासाक्षाद् भवेत्प्रभुः ॥१७॥ मनोवाकायतोहिंसां, त्यजन्तिसत्यसाधवः रागद्वेषपरीणाम, एव हिंसाऽस्ति चाऽन्तरा ॥१८॥ क्रोधान्मानात्तथादंभा, ल्लोभाद्भयाचदेहिनः .. स्वाऽन्यहिंसांप्रकुर्वन्ति, व्रजन्तिभवसागरम् ॥१९॥ षट्कायजीववृन्दानां, रक्षकाः साधवः शुभाः यान्तिमोक्षंदयावन्त स्तत्रकिञ्चिन्न संशयः ॥२०॥ यस्यचित्तेदयानास्ति, तश्चित्ते न प्रभुर्वसेत् यदाऽऽत्मनिदयावास, ईश्वरः सः प्रभुमहान् ॥२१॥
For Private And Personal Use Only