________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧
जानन्तिज्ञानिनः सत्यं, कर्मणो गहनां गतिम् ; प्राप्ते सुखे च दुःखे ते नैव मुह्यन्ति मोहतः ॥ ७१५॥ कर्म कस्तिकर्मैव, शुद्ध निश्चयदृष्टितः कर्मकर्ताsस्ति चाssत्मैव, नया त्तव्यवहारतः ॥ ७१६॥ रागद्वेषादिकं भाव, - कर्माsस्ति जिनभाषितम् अष्टधाकर्मणां भेदा, द्रव्यकर्माsस्ति निश्चिनु ॥७१७॥ दिव्यमौदारिकं देहं, नोकर्म कर्मबन्धने; हेतुश्च कर्ममुक्त्यर्थं, मोहिनां ज्ञानिनांक्रमात् ॥७१८ ॥ अन्तर्मुहूर्तवेलायां, सर्वकर्मक्षयङ्करः, आत्मज्ञानीभवत्येव, शुद्धोपयोगशक्तितः ॥७१९॥ जीवेऽजीवे न तुष्यन्ति, द्विष्यन्ति न जडाऽऽत्मसु; कर्मरूपंहिविज्ञाय; ज्ञानिनः समदर्शिनः ॥७२० ॥ तीव्रनिकाचितव्यक्त- प्रारब्धकर्मवेदिनः नवकर्म नबध्नन्ति, स्वाऽऽत्मोपयोगधारिणः ॥ ७२१ ॥ उच्चत्वंनचनीचत्वं, शुभाशुभेषुकर्मसुः अध्याऽऽत्मज्ञानिनोज्ञात्वा वर्तन्ते कर्मभोगिनः ॥ ७२२ ॥ औदयिकशुभेनैव, निजमुच्चा न जानते; औदयिका शुभेनैव, नीचा निजं न जानते ॥७२३॥ कर्मजन्योच्चनीचत्वाद्, भिन्नंजानन्ति ते निजम् ; आत्मास्वभावतोनीच; उच्चोनचाऽगुरुर्लघुः ॥७२४॥ एवं विज्ञायवर्तन्ते, शुद्धोपयोगिनोजनाः द्वैषिणामुपरिप्रेम, कारुण्यभावधारकाः ।। ७२५ ॥ शत्रु शत्रुबुद्धिर्न, प्रेम्णा द्वेषोपशामकाः स्वस्याsशुभप्रकर्तारं नाऽन्यंजानन्ति कोविदाः ॥७२६ ||
For Private And Personal Use Only