________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोटिशास्त्रस्य पाण्डित्या, नकिञ्चिद्गर्वधारकाः चक्रवर्तिपदं प्राप्य, मन्यन्ते न निजं प्रभुम् ॥७२७।। आत्मोपयोगिनोरङ्क,-दशायां नैवदुःखिनः लघुत्वंच प्रभुत्वं स्वं, मन्यन्ते नैव कर्मतः ॥७२८॥ लोकरूढ्यनुदासर्य, च्छुभाऽशुभं च कल्पितम् : शुद्धोपयोगिनः सन्तः, स्तनस्वातन्त्र्यवर्तिनः ॥७२९॥ प्रतिष्ठामानसत्कीर्ति, बाह्यशमर्मादिहेतवे यावञ्चित्तस्य चाञ्चल्यं, ताव हुःखोदधिः स्वयम् ॥७३०॥ प्रतिष्ठामानसत्कीर्ति,-बाह्यशर्म विनिर्गतम् ; मनोयस्यसदातस्य, ब्रह्मशोदधिः स्वयम् ॥७३१॥ सद्गुरुकृपया तूर्ण, मुत्थित आत्मशुद्धये; आत्मोपयोगसामर्थ्यात्, करिष्ये स्वाऽऽत्मशुद्धताम्॥७३२॥ दुष्कृतमद्यपर्यन्तं, कृतं कारापितं च यत् : मनोवाकाययोगैस्त, निन्दामि स्वोपयोगतः ॥७३३॥ अनन्तभवबद्धंयत् , कर्म शुद्धोपयोगतः तत्सर्वक्षणमात्रेण, नश्येत्तत्र न संशयः ॥७३४॥ क्षयोपशमभावेन, स्वाऽऽत्मनः प्राप्तिराऽऽत्मना: भूता पूर्णञ्च सद्भावि,-न्येव क्षायिकभावतः ॥७३५।। आत्मनः शुद्धरागेण, यथाशक्तिप्रवृत्तितः पूर्णशुद्धाऽऽत्मलक्ष्येण, सञ्जीवामि यथातथम् ॥७३६॥. सद्गुरुकृपयाऽवाप्त, माऽऽत्मज्ञानं सुखावहम् : अनन्तं जीवनं नित्यं, प्राप्तं सत्यं वहाम्यहम् ॥७३७॥ बहिरन्तर्जगत्सव, चिदानन्दाय साधनम् : जातं निःसाधर्म चैव, जानताऽपि न कथ्यते ॥७३८।।
For Private And Personal Use Only