________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहेस्थितेऽपिवैदेहा, वाघातिकर्मभोगिनः सर्वविश्वस्यकल्याणं, कुर्वन्ति देशनादिभिः ॥७०३॥ त्यक्त्वा निद्रादशां घोरां, स्वमस्यविकलांदशां: जाग्रदशां च संप्राप्य, सम्प्रति जागृहि स्वयम् ॥७०४॥ उत्तिष्ठ जागरूकस्त्व, मात्मधर्मे रतो भव आत्मनि स्वाऽऽत्मबुडित्वं, धारय स्वीयवीर्यतः ॥७०५॥ अन्यतीर्थेषुसिद्धानां, सम्यग्दर्शनमस्तिता: सम्यगदर्शनलाभेन, समभावः प्रजायते ॥७०६॥ सम्यक्त्वमन्तरासाम्यं, नोद्भवेत् सर्वधर्मिषु; मिथ्याबुद्धिः प्रणश्येन्न, सम्यग्दर्शनमन्तरा ॥७०७॥ अन्यदर्शनधर्मेषु, यत्सत्यं दृश्यतेसता, तत्सत्यं श्रीजीनेन्द्राणां, वचोवारिधिनिःसृतम् ॥७०८॥ नयसापेक्षबोधेन, स्वाऽन्यशास्त्रप्रवाचनम् । सम्यग्दृशाश्वतत्सर्वं, सम्यग्ज्ञानस्य पुष्टये ॥७०९॥ अध्यात्मज्ञानचारित्र,-लाभः सम्यक्त्वदर्शनात्; जागर्तिस्वाऽऽत्मनो दृष्टिः शुद्धोपयोगरूपिणी ॥७१०॥ कर्मकर्त्ताचतद्भोक्ता, हर्ता स्वाऽऽत्मास्वयंभवेत् ; कर्मविपाकवेलायां, परो नैमित्तकस्तथा ॥७११॥ कर्मजन्येसुखदुःने, मित्रं शन्नुम कल्पते; अन्यंच कर्मरूपज्ञः शुद्धोपयोगवान्जनः ॥७१२॥ कर्मजन्यं सुखंदुःख, माऽऽत्मना तदुपार्जितम् : स्वकृतकर्मभोगेषु, कुप्य मा तुष्य देहिषु ॥७१३॥ सुखदुःखप्रदकर्म, तत्कर्ताऽऽत्माऽस्ति सर्वथा; ज्ञात्वैवं समभावेन, कर्म भुञ्जन्ति पण्डिताः ॥७१४॥
For Private And Personal Use Only