________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्विषोऽस्ति यथा सों, दशन् नाऽन्यविनाशक: सम्यग्दर्शनवानजीव, स्तथास्वाऽन्याविनाशकः ॥६१९॥ पश्चेन्द्रियैर्भवेद्भोगी, सम्यग्दर्शनवान् जनः आत्मशुद्धोपयोगेन, स्वाऽल्पबन्धश्च मुक्तये ॥६२०॥ पशूनां रक्षण कार्य, पक्षिणाञ्चविशेषतः । यतना सर्वकार्येषु, कार्य स्ववीर्यरक्षणम् ॥६२१॥ अन्नंजलश्ववस्त्रञ्च, देयं तदर्थिने शुभम् ; यत्काले यच्चयोग्यं स्या, त्तदेयं मुक्तिकामिभिः ॥६२२॥ मनोवाकाययोगानां, बलवृद्धिश्चरक्षणम् : आरोग्यहि सदारक्ष्यम् , नारीभिश्चनरैध्रुवम् ॥६२३॥ आत्मशुद्धोपयोगाय, आन्तरा बाह्यशक्तयः प्रासव्याः सर्वथोपाय, दृद्धयुवकबालकैः ।।६२४॥ आजीविकादिसद्यत्न, बर्बाह्यदेहादिजीवनम् । धार्यसर्वजनैः सम्यगशुद्धोपयोगहेतवे ॥६२६॥ देहादिजोवनोपाय, र्जीव्यंस्वाश्रयिभावतः स्वतंत्रजीवनंधार्य, निर्दोषमाऽऽत्मशुद्धिकृत् ॥६२६॥ क्षात्रकर्मचसद्विद्या, कृषिर्व्यापारकर्मचा सेवा चेतैगृहस्थैहि, जीव्यमाऽऽत्मोनतेः कृते ॥६२७॥ आन्तरंजीवनं पोष्यं, प्रामाण्यस्वोद्यमादिकैः आत्मोपयोगशुड्यथै, सत्त्वजीवनकारणम् ॥३२८।। रोगिभ्यऔषधादीनां, दानं शत्यऽनुसारतः विद्यादानश्च बालेभ्यो, देय माऽऽत्मोपयोगिभिः ॥२९॥ गृहाऽऽगतस्यसत्कारः कर्तव्यो भोजनाऽऽदिभिः आपत्कालेचदुर्भिक्षे, कर्तव्य लोकपालनम् ॥६६॥
For Private And Personal Use Only