________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3
પર
स्वगच्छे व्यवहारेण, वर्तिनां समभावतः कषायमुक्तितो मुक्ति, भवेत्तत्र न संशयः ॥ ६०७॥ श्वेताम्बरमतेमुक्ति, स्तथा दैगम्बरे मतेः सर्वकषायमुक्तानां, समशुद्धोपयोगिनाम् ||६०८ || वैष्णवानाञ्च शैवानां, बौद्धानां स्त्रोस्तिधर्मिणाम्; महंमदीयलोकानां भवेन्मोक्षः समत्त्वतः ॥ ६०९ ॥ रागद्वेषपरीणाम -, कषायत्यागमन्तरा; सर्वधर्ममनुष्याणां मोक्षः कदाऽपिनोभवेत् ॥ ६१०॥ उपयोगेन धर्मोऽस्ति, बन्धोऽस्ति परिणामतः अधर्मोऽनुपयोगेन, क्रियातः कर्मबन्धनम् ॥ ६११ ॥ कर्मबन्धनस्याद्, रागद्वेषयता क्रिया;
कर्मबन्धनमुक्त्यर्थं क्रिया स्वाऽऽत्मोपयोगिनी ||६१२ ॥ सम्यग्दर्शनयुक्तानां प्रशस्यपरिणामतः अल्पोऽस्तिकर्मणांबन्धो, जायते निर्जराभृशम् ॥६१३॥ स्वल्पदोष महाधर्म, विज्ञाय सर्वकर्मसु सम्यग्दर्शनजैनानां वर्तनञ्च भवेत्सदा ॥ ६१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्यागिनाञ्चगृहस्थानां, सम्यग्दर्शनधारिणाम्; आत्मोपयोगिनां सर्वाः प्रवृत्तयश्च मुक्तये ॥ ६१५ ||
सम्यग्दर्शनयुक्तानां, पारम्पर्येण मुक्तये; गार्हस्थ्ययोग्य प्राणि, भवन्त्याऽऽत्मोपयोगिनाम् ॥६१६ ॥ पञ्चवर्णीयमृद्भोक्ता, शङ्खः स्वपरिणामतः
स्वयंश्वेतो भवेन्नूनं, तथा सम्यक्त्त्ववान्जनः ॥६१७॥ सविषोऽस्तियथा सर्पों, लोकानां प्राणनाशकः तथा मिथ्यात्वयुक्तोऽस्ति, जीवः स्वाऽन्यविनाशकः । ६१८ ।।
For Private And Personal Use Only