________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૫૧.
ज्ञातं येन स मुक्तः स्यात्, सम्यग्दर्शननिश्चयात् । आत्मोपयोगलीनत्वं, प्राप्यते ज्ञानयोगिभिः ॥५९५॥ मोहादिसर्ववृत्तीनां, लयो मोक्षो भवेत् खलु; महावीरस्यनाम्ना त्वं, वीरे लीनो भवद्रुतम् ॥५९६॥ स्वयंभव महावीरो, वीराद्वीरः प्रकाशते; सत्तयाऽऽत्ममहावीरो, व्यक्तः भवतिध्रुवम् ॥५९७॥ सत्त्वरजस्तमोवृत्ति, मोहप्रकृतिरेवसा; प्रकृतेभिनमाऽऽत्मानं, पुरुषमेव बोधत ॥५९८॥ आत्मनोऽसङ्ख्यनामाम, तैराऽऽत्मानं विचारय: त्वत्तः प्रकाशते विश्व, स्वाऽऽत्मानं विद्धिसत्प्रभुम् ॥५९९॥ मां नय तमसो ज्योतिः परंब्रह्मजिनेश्वर !! आत्माब्रूते निजाऽऽत्मान, मलक्ष्यो नैव लक्ष्यते ॥६००॥ आत्मोपयोगतोलक्ष्योऽ-लक्ष्य आत्मा निजाऽऽत्मना अनुभवी विजानाति, स्ववेद्योऽहं चिदाऽऽत्मना ॥६०१॥ आनन्दज्ञानरूपोऽस्ति, सर्वजीवस्तथाऽऽत्मनः ज्ञाता आत्मोपयोगेन, शुद्धनिश्चयबोधतः ॥६०२॥ एकाऽऽत्मा संग्रहेणस्या, चित्सत्तातः प्रवेदकः आत्मसत्तोपयोगेन, सद्ब्रह्मैक्यं प्रवेम्यहम् ॥६०३॥ सिद्धदेवसमाः पूर्णा, आत्मानः सन्ति सत्तया; आत्मोपयोगतः सिडो-भविष्यामि न संशयः ॥६०४॥ गच्छादिसम्प्रदायानां, चर्चासु न पतेत् सुधीः सर्वगच्छेषु मोक्षोऽस्ति, साम्योपयोगतो ध्रुवम् ॥६०५॥ गच्छादिमतभेदानां, मोहान्मुक्तिनं जायते मुक्तिः कषायमुक्त्याऽस्ति, साम्यात् कषायमुक्तता ।६०६॥
For Private And Personal Use Only