________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वदर्शनरूपाऽऽत्मा, दर्शनान्याऽऽत्मनःस्फुटम् श्रुतज्ञानस्य पर्याया, मिथ्यासम्यक्स्वरूपिणः ॥५८३॥ साधिते जैनधर्मेस्युः सर्वधर्माः प्रसाधिताः सर्वेधर्माःप्रगच्छन्ति, जैनधर्म प्रति ध्रुवम् ॥५८४॥ सर्वदर्शनपर्यायाः संस्पृष्टास्त्याजिताश्चये; केवलज्ञानलाभेन, प्रजायन्ते न ते पुनः ॥५८५॥ आत्मनः क्षायिकाद् भावात, केवलज्ञानदर्शनमः प्राप्तेरनन्तरं स्वाऽऽत्मा, परमाऽऽत्माधुर्वभवेत् ।।५८६।। शुद्धप्रज्ञासुपुम्णैव, भक्ति रिडैवसात्त्विकी; पिङ्गलैव स्थिरप्रज्ञा, मेरुदण्डोऽस्ति धीरता ॥५८७॥ षट्स्थानकस्ययच्चक्र, षट्चक्रंतन्निजाऽऽत्मनः सम्यकचारित्रमेवाऽस्ति, ब्रह्मरन्ध्रा मजाऽऽत्मनि ॥५८८॥ अन्तराऽऽत्मा निजाऽऽधार-, चक्र मध्याऽऽत्मभावतः स्वाधिष्ठानं स्थिरज्ञानं, ज्ञेय माऽऽत्मोपयोगतः ॥५८९॥ मणिपूरकचक्रस्यात्, सम्यग्ज्ञानं प्रतिष्ठितम् ; धर्मध्यानंतु हृच्चक्रं, कण्ठचक्रं श्रृंतमहद् ॥५९०॥ दर्शनज्ञानचारित्र, मेवाऽस्ति त्रिपुटी शुभा; निर्विकल्पोपयोगोऽस्ति-, ब्रह्मरन्ध्रस्थितमहः ॥५९१॥ प्राणायामस्तु म्रो बोध्यो, मार्गानुसारिसद्गुणाः नेतिश्चित्तस्यसंशुद्धि, धोतिः सेवैव सात्त्विकी ॥५९२॥ बस्तिरेवगुरोर्बोधो, नौलिकर्मैव सत्क्रिया; षट्चक्रदेवदेव्यस्तु, स्वाऽऽन्तरा आत्मवृत्तयः ॥५९३॥ ज्ञानयोगी विजानाति, षड्धास्थानकमाऽऽत्मनः आत्मोपयोगतः षड्धा-, स्थानकचक्रमाऽऽत्मनि ॥५९४॥
For Private And Personal Use Only