________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
सम्यग्दर्शनलब्धारो, सर्वदर्शनधर्मतः सत्यंगृह्णन्ति साक्ष- दृष्ट्या जैनाः शिवार्थिनः ॥ ५७१ ॥ सम्यग्दृष्टिं हृदि प्राप्य, पश्चाद् भूत्वोपयोगिनः स्वाऽन्यलिङ्गेषुसिद्धाये, सेत्स्यन्तिते च सर्वथा ॥५७२ ॥
सम्यग्दर्शनसम्प्राप्त्या, प्रादुर्भवति चेतने; शुद्धोपयोगसामर्थ्य, सर्वकर्म विनाशकम् ॥५७३ ॥
अनेकान्तमताम्भोधिः सम्यग्दृष्टिजनोऽस्तियः सर्वधर्मस्य मर्माणि, जानाति साध्यलक्ष्यवान् ॥५७४ || स्याद्वादनयसापेक्षा, ज्जिनाङ्गे सर्वदर्शनम् माति मया परिज्ञातं स्याद्वादनयबोधतः ॥ ५७५ ॥ सर्वदर्शनसत्यांश-, दर्शकं जैनदर्शनम् : सर्वकदाग्रहान्मुक्तं, शुद्धोपयोगदर्शकम् ॥५७६ ॥ रुसित्यबोधेन, सर्व विश्वकदाग्रहान ; सर्वदर्शन सद्रूपं, जयताज्जैनदर्शनम् ॥५७७ ॥ जैनदर्शनमाऽऽत्माsस्ति, स्वाऽऽत्माऽहं जैन दर्शनी: जिनश्चजैन रूपोsहं, साध्यसाधनभावतः ॥ ९७८ ॥ मुक्त्यर्थ यो जिनैदिष्टो, जैनधर्मः स उच्यते, आदर्शध्येयरूपोऽस्ति, पूर्णाssत्मशुद्धिकारकः ॥ ५७९ ॥ आत्मनः पूर्णशुड्ङ्घर्थं, जैनधर्मोऽस्ति साधनम्: द्रव्यभावारिजेतारो, जैना जिनाऽनुयायिनः ॥ ५८० ॥ जैनास्तु साधकाऽऽत्मानो, मोहनाशनतत्पराः रागद्वेषविजेतारो, केवलज्ञानिनो जिनाः || ५८१ ॥ जैनधर्मो जिनो जैन, आत्मैवचाऽऽत्मपर्यवाः आत्मनः शुद्धपर्याय, सिद्धरूप मुपास्महे ॥ ५८२॥
"
For Private And Personal Use Only