________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूरिवाचकसाधूनां, वैयावृत्यं सुभावतः कर्तव्यञ्च तथा सेवा, भक्तिराऽऽत्मोपयोगिभिः ॥६३१।। दानाद्यैराऽऽत्मशुद्धिःस्या, तथा सद्गुरुसङ्गतः प्रादुर्भवति मोक्षार्थ, माऽऽत्मोपयोग आन्तरः ।।६३२॥ जातेर्लिङ्गस्यलक्ष्म्याश्च, देशस्यमोहवृत्तिभिः धर्माऽभिमानवृत्त्याच, मोक्षोनृणां न जायते ॥६३३॥ आत्मनिगुणपर्यायाः, सत्तातः सन्त्यनादितः सन्तोये कर्मणोनाशा, दाविर्भूता भवन्ति ते ॥६३४॥ आत्मनोगुणपर्याय-, व्यक्तये हेतवश्चये; तेषां सदुपयोगेन, स्वाऽऽत्मा सिद्धोभवेत्स्वयम् ॥६३५॥ स्थावरतीर्थयात्राभि, राऽऽत्मशुद्धिः प्रजायतेः जगमतीर्थयात्राभि, राऽऽत्मशुद्धिर्भवेद्रुतम् ॥६३६॥ ॐ अर्हमन्त्रजान, चित्तशुद्धिर्भवेत्खलु; ॐही अहमहावीर-, जापात् कर्मक्षयो भवेत् ।।६३७॥ आत्मोपयोगसिद्ध्यर्थ, भव्यैश्च विधिपूर्वकम् : मन्त्रजापः सदाकार्यः पश्चानां परमेष्ठिनाम् ॥ ॥६३८॥ . सर्वयज्ञोत्तमोजापो, यज्ञः सेव्यो मुहुर्मुहुः मानसिकमहाजापा, न्मोहवृत्तिलयोभवेत् ॥६३९॥ मन्त्रयोगेन शक्तीनां, प्रादुर्भावोभवेबृदिः शुद्धोपयोगहेतूनां, मन्त्राणां जाप इष्यते ॥६४०॥ परब्रह्मोपयोगार्थ, स्मारकश्चाऽऽत्मतेजसाम् : जाप्यो श्रीमहावीर, पूर्णतेजोमयः प्रभुः ॥१४॥ आत्मोपयोगतोऽनन्त-तेजोरूपश्चिदाऽऽत्मकः प्रकाशेत हृदिव्यक्त, आत्मारामः सनातनः ॥६४२।।
For Private And Personal Use Only