________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ शुद्धब्रह्मरसास्वाद-, प्राप्तमाधुर्यजीवनात् : जीवन्ति ते यतः सन्तः, प्रभोर्जीवनजीविनः ॥३९॥ आन्तरं जीवनं ज्ञान, मनन्तमुपयोगिनाम् : अनन्तवीर्यसम्पन्न, जीवनं निर्मलं शुभम् ॥३९२॥ याह्यजीवनजीवन्त, आन्तरं जीवनविनाः जीवन्त स्ते मृताज्ञेयाः मोहजीवनजीविनः ॥३९३॥ बाह्यजीवननाशोऽस्ति, चानन्तं ब्रह्मजीवनम् : ब्रह्मजीवनाविन्तो, वैदेहाऽत्मस्वरूपिणः ॥३९४॥ आत्माधीनं मनःकायो-, वचश्च यस्य वर्तते; मनोवाकायपावित्र्या, त्तस्य स्वातंत्र्यजीवनम् ॥३९५॥ सवुड्या वर्तनं यस्य-दुर्बुड्या नैववर्तनम्, इन्द्रियाणां न दासोऽस्ति-स्वतन्त्रश्चोपयोगवान् ॥३९॥ आत्मजीवनजीवन्तो, बाह्यजीवनजीवकाः अन्तर्बहिः स्वतन्त्रास्ते, प्रतिबन्धविवर्जकाः ॥३९७॥ मनोवाकायगुप्तीनां-, धारकादोषवारकाः समितिवाहकाः सन्तः स्वतन्त्रा धर्मचक्रिणः ॥३९८॥ योग्याचारेण जीवन्तो, योग्याहारविहारिणः आत्मानिाश्च सर्वत्र, स्वाऽऽत्मोपयोगजीविनः ॥३९९।। विवेकेन प्रवृत्ताये, आजीविकादिकर्मसु; बाह्यजीवनसापेक्ष-, सर्वाचारविचारिणः ॥४०॥ मैत्रीभावेन वर्तन्ते-, माध्यस्थभावधारकाः प्रमोदभावसम्पन्नाः कारुण्यभाववाहकाः ॥४०१॥ सूपयोग प्रकुर्वन्तो-, मनोवाकायकर्मणाम् ; आत्मानन्दरसोन्मत्ताः प्रभोर्जीवनजीविनः ॥४०२॥
For Private And Personal Use Only