________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૭
अतो जीवादिरक्षार्थ, मनुष्यः सर्वयत्नतः यतितव्यं स्वभावेन, विश्वोपग्रहहेतवे ।। ३७९॥ पशुपक्षिमनुष्याणां, रक्षणं स्वीयशक्तितः वृक्षाणां रक्षणकार्य, विवेकेन यथातथम् ॥३८०।। मातुः पितुश्च वृद्धानां, सद्गुरूणां सुभक्तये; निष्कामवुद्धितो नित्यं, यतितव्यं स्वशक्तितः ॥३८१॥ आत्मोपयोगिभिर्भक्तैः स्वाऽन्योपकारिणःप्रति: वर्तितव्यं सुसेवाभिः सेवाधर्माऽस्ति धर्मिणाम् ॥३८२॥ स्वार्पणेन सदा सेव्यः सम्यक्त्वज्ञानदायकः आत्मोपयोगलाभार्थ, सन्तः सेव्याः सुभावतः ॥३८३॥ परोपकारिणांणां, कार्या सेवा सुभावतः सेवाधर्मसमो धर्मा, नैवभूतो भविष्यति ॥३८४॥ स्वोत्पन्नः सद्गुणैः सेवा, कार्या विश्वस्थदेहिनाम: प्रतिफलं न चाकांक्ष्य-, सन्तो निष्कामकर्मिणः ॥३८५।। सात्त्विकसद्गुणैः सेवा,- भक्तिकर्मादिभिर्जनैः आत्मशुद्धिः प्रकर्तव्या, साध्य सियति साधनात् ॥३८६। विश्वसेवा सदाकार्या, प्राप्तशुद्धोपयोगिभिः; शुद्धोपयोगिनः सन्तः, सेवायामधिकारिणः ॥३८७॥ आत्मज्ञानं विना सेवा-, कारिणः पापबन्धकाः निष्पापा ज्ञानिनो ज्ञेया, यतस्ते स्वोपयोगिनः ॥३८८॥ क्षयोपशमभावेन, प्राप्तशुद्धोपयोगिनाम् । सतांसेवा भृशं कार्या, उपायैरपिकोटिभिः ॥३८९॥ शुद्धात्मप्रभुलीनानां, देहाध्यासविवर्जिनाम: आत्मोन्मत्तमनुष्याणां, हृदिव्यक्तो प्रभुमहान् ॥३९०॥ .
For Private And Personal Use Only