________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सम्प्रदायादिभेदस्थ-, नणां मुक्ति हि साम्यतः गच्छक्रियादिनिर्मोहा, याता यास्यन्ति सद्गतिम् ॥३६७॥ आत्मोपयोगिनः सर्व, कुर्वन्ति व्यवहारतः संलक्ष्य शुद्धमात्मानं, वर्तन्ते स्वाधिकारतः ॥३६८॥ सर्वधर्मीयशास्त्राणां, मतानां चावलोकिनः असंख्यनयसापेक्ष-, सत्यार्थिनस्तु मुक्तये ॥३६९॥ असंख्यनयसापेक्ष-सत्यज्ञानस्य सागरा: महावीरस्यदेवस्य, भक्ता जैना हि मुक्तिगाः ॥३७०॥ शुद्धाऽऽत्मैव स्वगच्छोऽस्ति, सम्प्रदायो निजाऽऽत्मनि; सर्वदर्शनरूपाऽऽत्मा, जानाति योऽस्ति साम्यवान् ॥३७१॥ आत्मनः स्वांशरूपास्ता दृष्टयः सर्वधर्मिणाम् : अनुभूतो मयास्वाऽऽत्मा, नयैरेवमपेक्षया ॥३७२॥ बन्धोऽस्ति मोहभावेन, बाह्यतो निष्क्रियावताम् : मोहंविना तु निर्बन्धा, बाह्यतः कर्मकारिणः ॥३७३॥ परस्परोपकाराय, जीवाऽजीवाश्च सर्वदाः ।। विश्वस्थसर्वजीवानां, परस्परमुपग्रहः ॥ ३७४ ॥ जीवाऽजीवसहायेन, जीवा जीवन्ति भूतले; मनुष्याणां विशेषेण, जीवाऽजीवसहायता ॥३७॥ महीचन्द्रार्कसाहाय्या, जीवानां जीवनं भवेत् , मातुः पितुश्च वृद्धानां, निमितैरस्ति जीवनम् ॥३७६॥ अन्नपानाधुपायैस्तु, लोकानामस्ति जीवनम् : जीवाऽजीवादितः सर्व, मन्नादिकं मिलेद्यतः ॥३७७॥ नरा जीवन्ति धर्मार्थ, जीवाऽजीवसहायतः पारम्पर्येण मोक्षार्थ, जीवाद्या उपकारकाः ॥३७८॥
For Private And Personal Use Only