________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૧
अनुलक्ष्य निजाऽऽत्मानं, वर्तन्ते योग्यहेतुभिः अविरोधो विदिषु-, हेतुषु ब्रह्मवेदिनाम् ॥३६५॥ परस्परविभिन्नेषु, बाह्येषु धर्महेतुषु; व्रतक्रियाणां सापेक्ष-हेतुत्वमुंपयोगिनाम् ॥३५६॥ मनोवाकायसंशुङ्या, सात्त्विकान्नादिना तथा: सात्त्विकवुद्धियोगेन, शुद्धब्रह्म प्रकाशते ॥३५७॥ उपादाननिमित्ता ये, शुद्धोपयोगहेतवः स्वाधिकारेण संसेव्या, गीतार्थगुरुनिश्रया ॥३५८॥ श्रीचतुर्थगुणस्थान, मारभ्य स्वोपयोगताम् । आप्नुवन्ति जना ब्रह्म-,शक्तीश्चात्मोन्नतिक्रमात् ॥३५९॥ कर्मणां निर्जरा बहव्य, श्वाल्पबन्धः प्रजायते; सम्यग्दृष्टिमनुष्याणा, मास्रवारम्भकारिणाम् ॥३६०॥ आत्मोपयोगिनां नृणा, महिंसा आन्तरा यतः हिंसाभावं विनानैव, हिंसातः कर्मवन्धता ॥३६१॥ आत्मोपयोगिनां दोषा, नश्यन्ति पूर्णवेगतः आत्मशुद्धिर्भवेत्तूर्ण, तत्र किञ्चिन्न संशयः ॥३६२॥ आत्मोपयोगिनः सन्तो, गृहस्थाश्च विवेकतः बहिरन्तःप्रवर्तन्ते, मोक्षार्थ तत्प्रवृत्तयः ॥३६३॥ गच्छादिमतभेदाये, क्रियादिभेदवृत्तयः तत्रोपयोगिनः सन्तो, मुह्यन्ति न कदाग्रहात् ॥३६४॥ सर्वगच्छस्थिताः सन्तो, गृहस्थाश्चोपयोगिनः स्वस्वगच्छक्रियावन्तः समत्वान्मुक्तिगामिनः ॥३३॥ सर्वगच्छक्रियादीनां, तात्पर्यमाऽऽत्मशुद्धये: क्रियादिमतभेदेषु, क्लिश्यन्ति न समत्वतः ॥३६६॥
For Private And Personal Use Only