SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 औत्सर्गिकापवादाभ्यां, क्रियमाणेषु कर्मसु; प्रभोः स्मृतिप्रवाहोय-उपयोगः स इष्यते ॥३४३॥ शुद्धाऽऽत्मसंस्मृते र्धारा, वर्तते या प्रतिक्षणम् । शुद्धोपयोग इष्यास, आत्मशुद्धिप्रदो महान् ॥३४४॥ सर्वकर्मविनाशाथै, पूर्ण शुद्धाऽऽत्मसंस्मृतिः धार्या प्रतिक्षणं कर्म-, कुर्वद्भिः कर्मयोगिभिः ॥३४५॥ शुद्धाऽऽत्मश्रीमहावीर, स्मृति भंशं सुरागतः उपयोगः प्रविज्ञेयो, हृदि धार्यो विवेकिभिः ॥३४६।। आत्माऽऽहं सच्चिदानन्दो, गुणपर्यायभाजनम् , इत्येवं या स्मृतिः सैव, शुद्धोपयोग इष्यते ॥३४७॥ क्रियमाणेषु कार्येषु, प्रतिक्षणं प्रभोः स्मृतिः सोपयोगोऽस्ति विज्ञेय, स्ततो मोहो न जायते ॥३४८|| धर्म्ययुद्धादिकार्येषु, प्रवृत्ताः स्वाधिकारतः शुद्धोपयोगिनो भव्याः, कुर्वन्ति कर्मनिर्जराम् ॥३४९।। त्यागिनश्च गृहस्थाये, स्वाधिकारप्रवर्तकाः शुद्धोपयोगतो मुक्तिं, यान्ति तत्र न संशयः ॥३५०॥ क्षणमात्रमपि प्राप्त, उपयोगं य एकशः मुक्तिमवश्यं सोयाति, सम्यग्दृष्टिः स्वभावतः ॥३५१॥ परस्परविरुद्धानां, वेषाचारादिकर्मणाम् : सापेक्षया निमित्तत्व, मात्मोपयोगिनां भवेत् ॥३५२॥ परस्परविरुद्धत्वं, धर्मनिमित्तकममुः मिथ्यादृशां भवेदेव, मिथ्यात्वमोहवर्धकम् ॥३५३॥ असंख्यधर्महेतुना, भिन्नानां स्वाधिकारतः आत्मोपयोगहेतुत्वं, ज्ञायते ज्ञानिभिः सदा ॥३५४॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy