________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ मुक्तिः साम्यविनानैव, सर्वदर्शनधर्मिणाम् : साम्यं विना प्रभोः प्राप्ति, नास्ति गुडाऽऽत्मनः खलु।।३३१॥ साम्यमेव सतां धर्मः, सात्त्विकप्रकृतेः परः साम्योपयोगतो मुक्ति, जीवन्मुक्तमहात्मनाम् ॥३३२॥ साम्योपयोगमालम्ब्य, याता यास्यन्ति यान्ति च: अनन्तदेहिनो मुक्तिं, तत्र कश्चिन्न संशयः ॥३३३॥ सेवाभत्त्यादियोगेभ्यः श्रेष्ठोऽनन्तगुणो महान् : समो योगः स्वभावेन, समासेव्यो महात्मभिः ॥३३४॥ समो यस्सर्वभूतेषु, सर्वजातीयधर्मिषु; समो यः शत्रुमित्रेषु, शुभाऽशुभेषु कर्मसु ॥३३५॥ शुभाऽशुभविपाकेषु, यः समः साक्षिभाववान् : क्षणमात्रमपि व्यक्तः स्यात् सः शुद्धोपयोगवान् ॥३३६।। एकक्षणिकशुद्धोय, उपयोगो यदा भवेत् : तदाऽनन्तभवैर्बद्ध, कर्म नश्यति तत्क्षणात् ॥३३७॥ अन्तर्मुहर्तकालीन, शुद्धोपयोगशक्तितः जायते केवलज्ञान, मात्मनि सत्यनिश्चयः ॥३३८॥ समः सर्वत उत्कृष्टः शुद्धोपयोग इष्यते: बहिरन्तः परब्रह्म, भासते ब्रह्मयोगिनाम् ॥३३९॥ मनोवाकाययोगानां, व्यापारकारकाचते; प्रारब्धाऽघातिकर्माणः सर्वत्र समसाक्षिणः ॥३४०॥ असंख्यभेदतो ज्ञेयः क्षयोपशमभाववान् : शुद्धोपयोग श्ऽऽत्मैव, भव्यजीवेषु सम्प्रति ॥३४१॥ ज्ञानदर्शनचारित्र-परीणाममयः शुभः क्षायोपशमिको व्यक्तः शुद्धयोगोऽप्रमादिनाम् ॥३४२॥
For Private And Personal Use Only