________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वज्ञ द्रव्यभावाभ्यां, प्रज्ञप्तं द्विविधं मनः पौद्गलिक मनोद्रव्यं, संज्ञिनां वर्तते ध्रुवम् ॥३१९॥ मतिश्रुतविचाराणां, मनस्त्वं भावतः स्मृतम् ; द्विविधं तु मनोज्ञेयं, तत्त्वज्ञानविवेकतः ॥३२०॥ शुद्धप्रेमपरीणाम,-साम्यज्ञानसुभक्तितः सर्वदर्शनलोकानां, मुक्तिराऽऽत्मनि निश्चिता ॥३२१॥ सर्वदेहस्थजीवाना, मात्मवद्दर्शनं यदा: वर्तनं च भवेत्सत्य, तदा मुक्तिस्तनौस्थिते ॥३२२॥ शुडप्रेममयी भक्ति, यंदा संजायते हृदि। तदाऽऽत्माहि परब्रह्म, स्वाऽऽत्मना दृश्यते स्वयम् ॥३२३॥ आत्मनो व्यापकप्रेम, यदा संञ्चायते तदा । सर्वविश्वस्य सेवास्या, दात्मवद् दर्शनं भवेद् ॥३२४॥ लजाभेदश्च खेदश्च, लोकसंज्ञादिवृत्तयः भेदो न विद्यते भक्तो, सेवायां च सदाऽऽत्मनाम् ॥३२५॥ ऐक्यरूपं जगत्सर्व, महंत्वंभेदनिर्गतम् : शुद्धप्रेम्णा प्रकाशेत, पराभक्तिजुषां सदा ॥३२६॥ शुद्धोपयोगिनः सन्तो, व्यापकाः सर्वदेशिनः असंख्यधर्मभेदानां, सापेक्षज्ञानधारकाः ॥३२७॥ पराभत्त्या प्रकाशेत, स्वाऽऽत्मन्येव प्रभुः स्वयम् ; पराभक्तिमयाः सन्तः, सर्वविश्वोपकारिणः ॥३२८॥ सेवाभक्त्यादयः सर्वे, योगाः शुद्धोपयोगिनाम् : विश्वपरोपकाराय, सम्भवन्ति स्वभावतः ॥३२९॥ समत्वेन प्रभोःप्राप्तिः सर्वदर्शनधर्मिणाम् ; स्याद्वादज्ञानतः प्राप्यः सम्योगो महात्मभिः ॥३३०॥
For Private And Personal Use Only