________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
34
बाह्यजीवननिर्बन्धा, बाह्यतोजीविनोऽपिते; साक्षिभावेनसर्वत्र, ब्रह्मजीवनजीविनः ॥४०३॥ प्रवृत्तिषुनिवृत्तिषु, वर्तनं या निवर्तनम् ; तत्र स्वतन्त्रबुड्याते-वर्तिनश्चनिवर्तिनः ॥४०४।। आत्मोपयोगिनां सर्व-, जगदाऽऽत्मिकशुद्धये: आत्मोन्नतिक्रमार्थञ्च, स्यादन्तस्तउपाधिषु ॥४०५॥ अशातायां च शातायां, वने गृहे च सागरे; आत्मनः परिणामाय, सर्वस्यादुपयोगिनाम् ॥४०६॥ सात्त्विकाचारवृत्तिषु, सात्त्विकसद्गुणेष्वपि: नाऽभिमानश्चयच्चित्ते, प्रवृता चोपयोगवान् ॥४०७॥ सधनोनिर्धनो वास्थाद्, भोगीरोगी च राज्यवान, आरण्यो वा गृही त्यागी, मुक्तः शुद्धोपयोगतः ॥४०८।। नपुंसको नरोनारी, यः कोऽपि स्वोपयोगवान् । यादृक्ताहगवस्थायां, मुक्तः स्यान्नवसंशयः ॥४०९॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चस्वोपयोगतः म्लेच्छामुक्तिपदयान्ति, नानालिङ्गादिधारिणः ॥४१०७ नाऽहंबालोयुवावृद्धो, नवा नारीपुमानहम् नाऽहंदेहश्चदेहीवा,-पुद्गलस्थो न पुद्गली ४११॥ सर्वपुद्गलपर्याया-दहंभिन्नोऽस्मिनिश्चयात्, पुद्गलेषुसुखंनाऽस्ति, सुखंब्रह्मणिशाश्वतम् ॥४१२॥ निरचनोनिराकारो, रूपस्थोऽपिनरूप्यहम् । विभावपरिणामस्थो, वस्तुतोऽहंस्वभाववान् ॥४१३॥ रागद्वेषपरीणामो, वैभाविकः सउच्यते ततोभिन्ना निजाऽऽत्माऽस्ति, रागद्वेषंच मा कुरु ।४१४॥
For Private And Personal Use Only