________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जोवन्तोऽपिमृतास्तेस्यु, ब्रह्मजीवनमन्तरा; शुद्धाऽऽत्मप्रेमबोधाद्यः प्राणनाशेऽपिजीविनः॥२३८॥ संकीर्णदृष्टिमन्तोये, देशकालाद्युपाधिभिः परब्रह्म न संयान्ति, जडव्यामोहधारकाः ॥ २३९॥ मत्तबुद्धिविनासन्तो, मत्तभावोपचारिणः व्यवहारात्प्रवर्तन्ते, यथायोग्यस्वकर्मसु ॥२४० ॥ कषायाणांनिमित्तेभ्यो. येषांमोहोनजायते ॥ तेषांमोहनिमित्तानां, संगेऽपिनैवदोषता ॥ २४१ ॥ मोहनिमित्तसंस्थोऽपि, निर्मोहीचोपयोगतः ईजज्ञानी भवेन्मुक्तो भोग्यविभोगवर्जितः ॥२४२॥ स्थूलभद्रादिकल्पाना, माऽऽत्मशुद्धोपयोगिनाम् : सर्वदासर्वथाब्रह्म, पूर्ण हृदि प्रकाशते ॥२४३ ॥ कामरसो न भोगेषु, यस्य ब्रह्मरसोद्भवः कामोत्पादकसङ्गोऽपि, तस्यनिष्कामकारणम् ॥२४४॥ अनुभूय निजाऽऽत्मानं, पूर्णानन्दमयंप्रभुम् । बहिरन्तश्चसर्वत्र, पूर्णानन्दमयोभव ॥२४॥ शब्दरूपरसस्पर्श-गन्धेषु साम्यभावतः प्रारब्धेन प्रवृत्तिःस्या-त्तदाब्रह्मरसोद्भवः ॥२४६॥ क्षयोपशमभावेतु, स्वाऽऽत्मानन्दः प्रजायते: वेदनीयविपाकेन, सुखं दुःखं च वर्तते ॥२४७ ॥ केवलिनां सुखं दुःखं, वेदनीयविपाकतः पूर्णानन्देसमुत्पन्ने, सतिता पिजायते ॥२४८ ॥ क्षयोपशमभावीय-, ज्ञानध्यानोपयोगतः आत्मानन्दस्तथादुःख, सुखं च वेद्यते मया ॥२४९॥
For Private And Personal Use Only