________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताऽशातोदयाच्छम, दुःखंचाऽऽत्मोपयोगिनाम् । आत्मानन्दरसास्वाद, श्चैवं स्वानुभवोहृदि ॥२०॥ शातोदयेसमुत्पन्ने, सुखे चाऽऽत्मोपयोगिनाम् : बाह्यसुखे न रागःस्याद्, ब्रह्मानन्दस्यभोगतः ॥२५१॥ पूर्णब्रह्मनिमग्नोऽस्मि, पूर्णब्रह्मस्वरूपतः । उद्गलै पुद्गलास्तृप्ति,यान्तिस्वाऽऽत्मानिजाऽऽत्मना२५२ आत्मनः सत्यतृप्तिस्तु, स्वाऽऽत्मानन्देन जायते; आत्मानन्दरसावाप्तेः पुद्गलेच्छा विनश्यति ॥२५३॥ क्षयोपशमभावीय-, ज्ञानचारित्रयोगतः आत्मन्येव सुखाम्भोधिः स्वयंस्वेनाऽनुभूयते ॥२५४॥ क्षणिकं हृदि विज्ञाय, सर्व वैषयिकं सुखम् ; आत्मानन्दस्यभोगार्थ, मात्मन्येव स्थिरोभव ॥२५॥ अनन्तगुणपर्याय शक्तिरूपं सनातनम् । देहस्थं तं विजानीया, देहाध्यासं भृशं त्यज ॥२५६॥ मा मुद्य जडभोगेषु, किश्चिच्चाऽपि ततः मुखम् । न स्यात्परन्तु दुःखानां, प्राप्तिः पश्चात्समुद्भवेत्॥२५७ भोगाद् रोगादिदुःखाना, पारम्पर्य प्रजायते: भोगे रोगभयोत्पादो, देहनाशोऽल्पसौख्यता ॥२५८॥ जायते च महादुःखं, विश्रान्तिरपि नोद्भवेत् भोगजन्यसुखं दुःख, मेवजानीहि निश्चयात् ॥२५९॥ भुक्ता अनादितो भोगा: प्रत्युत दुःखदाः सदा । ज्ञात्वैवंकामभोगांस्त्वं, त्यजाऽऽत्मसुखनिश्चयात्।।२६०॥ जन्ममृत्यु जरादुःखं, व्याधिदुःन्य पुन भृशम् ; आधिजं सर्व सम्बन्ध-जन्य दुःखमुपाधिकम्॥ २६१ ॥
For Private And Personal Use Only