________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
भावनायाःप्रवाहस्य, सन्तत्याबलमाऽऽत्मनः प्रादुर्भवतिनूनंतद्, पूर्णमैश्वर्यकारकम् ॥ २२६ ॥ औपशमिकभावेन, क्षायोपशमिकत्वतः क्षायिकभावसंजन्या, ज्ञानाद्याआत्मनोगुणाः॥२२७॥ क्षायोपशमिकत्वेन, सात्त्विकाश्चाऽऽत्मसद्गुणाः प्रादुर्भवन्ति गीतार्था, जानन्ति सूत्रबोधतः ॥२२८॥ क्षयोपशमभावीय-, ज्ञानानन्दादिसद्गुणाः आत्मन्येवसमुद्भूता, अनुभूताश्च सात्त्विकाः॥२२९॥ क्षयोपशमभावस्य, स्थिरत्वं न सदाभवेत् : क्षायिकभावमासाद्य, स्थिरा आत्मगुणाः सदा॥२३०॥ मयाक्षायिकभावेन, प्राप्ता नो स्वाऽऽत्म सद्गुणाः अनुभवोऽद्यपर्यन्त, मेवं शास्त्रादितस्तथा ॥२३१॥ तथाऽपिस्वाऽऽत्मशुद्धयाथै, क्षयोपशमभावतः ज्ञानसंयमयोगाना, मभ्यासः क्रियतेऽधुना ॥२३२॥ शुद्धाऽऽत्मरमणाऽभ्यासाज्ज्ञानध्यानोपयोगतः क्षायिककेवलज्ञानं, प्राप्स्येऽहंभाविजन्मनि ॥२३३॥ क्षयोपशमजन्या ये, गुणास्तेक्षायिकान्प्रति: आन्तराहेतवोनूनं, वीर्योत्साहप्रवाहतः
, वायात्साहप्रवाहतः ॥२३४॥ क्षयोपशम नस्य, स्युर्यनिमित्तहेतवः आलम्ब्याहेतवस्तेभ्यो जायन्ते स्वाऽऽत्मसद्गुणाः २३५ शुद्धाऽऽत्मजीवनं लक्ष्य, कृत्वाजीवन्तिपुद्गलैः आत्मजीवनलाभार्थ, जीवन्ति ते वपुःस्थिताः ॥२३६॥ शुद्धाऽत्मजीवनलक्ष्य, नास्तियेषांहृदिस्फुटम् ॥ जीवन्तोऽपिनजीवन्ति, पुद्गलैानमन्तरा ॥२३७॥
For Private And Personal Use Only