________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૯ स्थाद्वेषरागप्रशमो यथाऽत्र, तथाऽऽत्मबोधः समुदेति दिव्यः। आत्मस्वरूपे सुखमस्ति नूनं, सर्वत्र जीवेषु दया भवेच ॥ २४ ॥ नश्येत्कषायो खलु यद्यदशैः। साम्यं भवेदाऽऽत्मनि तत्तदंशैः, सत्त्वादिसर्वप्रकृतौ गतायामाऽऽत्मा स्वयं स्यादपवर्गपात्रम् ॥ २५ ॥ उदेति साम्यं हृदि यद्यदंशै, स्तदंशतश्चोपशमोऽपि तत्र । स्वकर्मणांक्षायिकभाव इष्टे. मुक्तिर्भवेदाऽऽत्मनि चित्स्वरूपा ॥ २६ ॥ स्याबाह्यदृष्ट्या खलु कर्मबन्धः स्यादाऽऽत्मदृष्ट्या तु निजाऽऽत्मधर्मः । स्यादाऽऽत्महष्ट्या न च कर्म किञ्चिदाऽऽत्माऽऽत्मदृष्ट्या प्रविलोक्यमानः ॥ २७ ॥ स्वप्नस्य जाग्रत्सु यथा विनाशस्तथाऽऽत्मबोधेषु च मोहनाशः। यन्त्राऽऽत्मदृष्टि नै ततोऽस्ति मोहो, जीवन्विमुक्तोहृदयेऽस्ति वित्तिः ॥२८॥ निजाऽऽत्मना श्रेणिक जागृहि त्वं, जाग्रत्सु सौभाग्य मथास्ति सर्वम् । त्वमाऽऽत्मनोत्तिष्ठ विधूय निद्रां, मामुह्य चित्तेषु लभस्व सौख्यम् ॥ २९ ॥
For Private And Personal Use Only